________________
२५३
गाथा-२७-२९
१९-तपोविधि-पञ्चाशकम् । जत्थ गाहा । यत्र तपसि कषायनिरोधो ब्रह्म जिनपूजनमिति व्यक्तम् अनशनं च भोजनत्यागः 'सा त्ति' तत् सर्वं भवति तपो विशेषतो मुग्धलोके, मुग्धलोको हि तथा प्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मक्षयोद्देशेनापि प्रवर्तते, न पुनरादित एव तदर्थं प्रवर्तितुं शक्नोति, मुग्धत्वादेवेति । सद्बुद्धयस्तु मोक्षार्थमेव विहितमिदमिति बुद्ध्यैव वा तपस्यन्ति । यदाह- "मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः" [तत्त्वार्थसूत्रकारिका-१ श्लोक ५] इति । मोक्षार्थघटना चागमविधिनैव । आलम्बनान्तरस्यानाभोगहेतुत्वात् । इति गाथार्थः ॥२६॥
न चेदं देवतोद्देशेन तपः सर्वथा निष्फलमैहिकफलमेव वा, चरणहेतुत्वादपीति चरणहेतुत्वमस्य दर्शयन्नाह -
एवं पडिवत्तीए, 'एत्तो मग्गाणुसारिभावाओ ।
चरणं विहियं बहवे, पत्ता जीवा महाभागा ॥९२३॥ १९/२७ . एवं गाहा। एवमित्युक्तानां साधर्मिकदेवतानां कुशलानुष्ठानेषु निरुपसर्गत्वादिहेतुना प्रतिपत्त्या तपोरूपोपचारेण तथा इत उक्तरूपात् कषायादिनिरोधप्रधानात् तपसः, पाठान्तरेण एवमुक्तकरणेन मार्गानुसारिभावात सिद्धिपथानुकूलाध्यवसायात् चरणं चारित्रं विहितमाप्तोपदिष्टं बहवः प्रभूताः प्राप्ता अधिगताः जीवाः सत्वाः महाभागा महानुभावाः । इति गाथार्थः ॥२७॥ (१. एवं. पु, जे. ।) तथा
सव्वंगसुंदरो तह, निरुजसिहो परमभूसणो चेव । आयइजणगो सोहग्गकप्परुक्खो तहण्णोऽवि ॥९२४॥ १९/२८ पढिओ तवोविसेसो अन्नेहिं वि तेहिं तेहिं सत्थेहिं । मग्गपडिवत्तिहेऊ हंदि विणेयाणुगुण्णेणं ॥९२५॥ १९/२९
सव्वं गाहा । पढिओ गाहा । सर्वाङ्गानि सुन्दराणि यतस्तपोविशेषात् स सर्वाङ्गसुन्दरः । तथेति समुच्चये रुजानां रोगाणामभावो निरुजं तदेव शिखेव शिखा प्रधानं फलतया यत्रासौ निरुजशिखः। तथा परमाण्युत्तमानि भूषणान्याभरणानि यतोऽसौ परमभूषणः ।चैवेति समुच्चय। तथा आयतौ आगामिकालेऽभीष्टफलं जनयति करोति योऽसौ आयतिजनकः। तथा सौभाग्यस्य सुभगतायाः संपादने कल्पवृक्ष इव यः स सौभाग्यकल्पवृक्षः। तथेति समुच्चये। अन्योऽपि अपरोऽपि उक्ततपोविशेषात् ॥२८॥
किमिति? आह - पठितोऽधीतस्तपोविशेषस्तपोभेदः । अन्यैरपि ग्रन्थकारैः तेषुतेषुशास्त्रेषु नानाग्रन्थेष्वित्यर्थः । नन्वयं पठितोऽपि साभिष्वङ्गत्वान्न मुक्तिमार्ग इत्याशङ्क्याह-मार्गप्रतिपत्तिहेतुः