________________
२५२ १९-तपोविधि-पञ्चाशकम्
गाथा-२३-२६ किञ्च -
अन्नो वि अत्थि चित्तो, तहा तहा देवयानिओगेण । मुद्धजणाण हिओ खलु, रोहिणिमादि मुणेयव्वो ॥९१९॥ १९/२३
अन्नो गाहा। अन्नो वित्ति अन्यदपि अस्ति विद्यते । चित्र विचित्रं तप इति गम्यते । तथा तथा तेन तेन प्रकारेण लोकरूढेन देवतानियोगेन देवतोद्देशेन मुग्धजनानामव्युत्पन्नबुद्धिलोकानां हितं खलु पथ्यमेव विषयाभ्यासरूपत्वात् रोहिण्यादिदेवतोद्देशेन यत्तद्रोहिण्यादि 'मुणेयव्वो त्ति' ज्ञातव्यम् । पुल्लिंगता च सर्वत्र प्राकृतत्वात् । इति गाथार्थः ॥२३॥
देवता एव दर्शयन्नाह - रोहिणी अंबा तह मंदउन्निया सव्वसंपयासोक्खा । सुयसंतिसुरा काली, 'सिद्धाइया तहा चेव ॥९२०॥ १९/२४
रोहिणि गाहा। रोहिणी (१), अंबा (२) तथा मन्दपुण्यिका (३)। 'सव्वसंपयासोक्ख त्ति' सर्वसंपत् (४) सर्वसौख्या चेत्यर्थः (५)। 'सुयसंतिसुर त्ति' श्रुतदेवता (६) शान्तिदेवता (७) चेत्यर्थः, 'सुयदेवय-संति-सुरा' इति वा पाठान्तरं व्यक्तं च । काली, (८) सिद्धायिका (९) इत्येता नव देवताः, तथा चैवेति समुच्चयार्थः, 'संबाइया चेव त्ति' पाठान्तरं । इति गाथार्थः ॥२४॥ (१. सुयदेवय-संति-सुरा. अटी. जे. । २. संबाइया चेव अटी. ।)
ततः किमित्याह - एमादिदेवयाओ, पडुच्च अवऊसगा उ जे चित्ता । नाणादेसपसिद्धा, ते सव्वे चेव होन्ति तवो ॥९२१॥ १९/२५
एमा गाहा । एवमादिदेवताः प्रतीत्यैतदाराधनयेत्यर्थः । 'अवऊसग त्ति' अपवसनानि अवजोषणानि वा तुः पूरणे ये चित्रा नानादेशप्रसिद्धास्ते सर्वे चैव भवन्ति तपः इति स्फुटमिति । तत्र रोहिणीतपो रोहिणीनक्षत्रदिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत्। तत्र च वासुपूज्यजिनप्रतिमाया:प्रतिष्ठा पूजा च विधेयेति । तथा अम्बातपः पञ्चसु पञ्चमीष्वेकाशनादि विधेयं नेमिनाथाम्बिकापूजा चेति । तथा श्रुतदेवतातप एकादशस्वेकादशीषूपवासो मौनव्रतं श्रुतदेवतापूजा चेति । शेषाणि तु रूढितोऽवसेयानीति गाथार्थः ॥२५॥
अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशङ्क्याह - जत्थ कसायनिरोहो, बंभं जिणपूयणं अणसणं च । सो सव्वो चेव तवो, विसेसओ मुद्धलोयम्मि ॥९२२॥ १९/२६