SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ गाथा - २०-२२ १९-तपोविधि-पञ्चाशकम् २५१ 'पंचदसिपडिवयाहिं ति' पञ्चदश्यां पौर्णमास्यां प्रतिपदि च कृष्णपक्षप्रथमतिथौ । 'तो त्ति' ततोऽनन्तरं । 'हाणि त्ति' एकैकशोऽनुदिनं भिक्षादिहानिं करोति । कृष्णप्रतिपक्षे कृष्णस्वरूपे शुक्लपक्षापेक्षया द्वितीयपक्ष इत्यर्थः । तत्र चामावास्यायामेका भिक्षा कवलो वा स्यादिति गाथार्थः ॥१९॥ अथ वज्रमध्या, तामाह - - किण्हे पडिवय-पन्नरस, 'इगेगहाणी उ जाव इक्को उ । अमवस्सपडिवयाहिं, वुड्डी पन्नरस पुन्नाए ॥९९६॥ १९/२० २ किन्हे गाहा । कृष्णे पक्षे प्रतिपदि प्रथमतिथौ पञ्चदशकवलादीन् गृह्णाति । तत 'इगेगहाणी उत्ति' एकैककवलादिहानिः प्रतिदिनं क्रियते । यावदेकस्तु एक एव कवलादिः । अमावास्याप्रतिपदोः प्रतीतयोः । ततो वृद्धिः कवलादीनामनुदिनं क्रियते यावत् पञ्चदश कवलादयः पूर्णायां पूर्णमास्यां भवन्ति । इति गाथार्थः ॥२०॥ (१. एग, पु. । २. एकक पु. ।) इह तपसि भिक्षादि ग्राह्यतयोक्तमतस्तल्लक्षणमाह एत्तो भिक्खामाणं, एगा दत्ती विचित्तरूवा वि । कुक्कुडिअंडगमेत्तं, कवलस्स वि होइ विन्नेयं ॥९९७॥ १९/२१ तो गाहा । इतो विवक्षिततपःस्वरूपाभिधानानन्तरं भिक्षामानं वाच्यमिति शेषः । तच्चेदम्एकाऽसहाया दत्तिर्भक्तप्रक्षेपरूपा विचित्ररूपाऽपि बह्वल्पैकानेकद्रव्यस्वभावतया नानास्वभावाऽपि, न केवलमेकस्वभावेति । अथ कवलमानमाह- कुक्कुट्यण्डकमात्रं कवलस्यापि भवति विज्ञेयमिति प्रतीतं । नवरं मानमिति वर्तते । इति गाथार्थः ॥२१॥ इहैव विशेषमाह - एयं च कीरमाणं, सफलं परिसुद्धजोगभावस्स । निरहिगरणस्स णेयं, इयरस्स न तारिसं होई ॥९९८॥ १९ / २२ एयं गाहा । एतच्चैतत्पुनरनन्तरोक्तं तपः क्रियमाणं विधीयमानं सफलं मोक्षादिफलं विज्ञेयमिति योग: । परिशुद्धा निर्दोषा योगा व्यापारा भावश्चाध्यवसायो यस्य स तथा तस्य । एतदेव स्पष्टतरमाह-निरधिकरणस्य गुरुतरारंभवर्जितस्य निष्कलहस्य वा ज्ञेयं ज्ञातव्यम् । इतरस्य साधिकरणस्य न नैव तादृशं यादृशं निरधिकरणस्य फलमिति गम्यते । भवति स्यात् । इति गाथार्थः ॥२२॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy