SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २५० १९-तपोविधि-पञ्चाशकम् गाथा-१६-१९ तीर्थकराः महानुभावा अचिन्त्यशक्तयः । 'तओ य इमो त्ति' तकच्च तीर्थकरनिर्वाणगमनाख्यं तप इदं वक्ष्यमाण । इति गाथार्थः ॥१५॥ तदेवाह - निव्वाणमंतकिरिया, सा चोद्दसमेण पढमनाहस्स। सेसाण मासिएणं, वीरजिणिंदस्स छटेणं ॥९१२॥ १९/१६ निव्वाण गाहा । निर्वाणं निर्वृत्तिः । अन्तक्रियेति अन्तक्रियाशब्देनोच्यते । सान्तक्रिया 'चोद्दसमेण त्ति' चतुर्दशभक्तेनोपवासषट्करूपेण प्रथमनाथस्य ऋषभजिनस्य । शेषाणामजितादीनां मासिकेन मासोपवासरूपेण । वीरजिनेन्द्रस्य षष्ठेनेति व्यक्तम् । इति गाथार्थः ॥१६॥ अथैते यत्र निर्वृतास्तत्प्रसंगेन दर्शयितुमाह - अट्ठावयचंपोज्जितपावासंमेयसेलसिहरेसु। उसभ-वसुपुज्जनेमी-वीरो सेसा य सिद्धिगया ॥९१३॥ १९/१७ स्पष्टा नवरं अष्टापदः पर्वतविशेषः । चंपा नगरी । 'उज्जित त्ति' उज्जयन्तः पर्वतविशेष एव । 'पाव त्ति' अपापा मध्यमा नाम नगरी । संमेतशैलशिखरं पर्वतविशेषकूटं । एषु स्थानकेष । ऋषभादयः क्रमेण सिद्धिं गता इति गाथार्थः ॥१७॥ तथा चंदायणाइ य तहा अणुलोमविलोमओ तवो अवरो। भिक्खाकवलाण पुढो विन्नेओ वुड्डिहाणीहिं ॥९१४॥ १९/१८ चंदा गाहा। चन्द्रायणमिव चन्द्रायणं तदादि च । आदिशब्दाद् भद्रा-महाभद्रा-सर्वतोभद्रारत्नावली-कनकावल्ये-कावली-सिंहनिष्क्रीडितद्वया-चाम्लवर्धमान-गुणरत्नसंवत्सरसप्तसप्तमिकादिचतुष्टय-कल्याणकादितपसामागमप्रसिद्धानां ग्रहः । तथेति वाक्यान्तरोपक्षेपार्थो गाथादौ दृश्यः । अनुलोमविलोमतो गतप्रत्यागत्या। तपोऽपरमन्यत् । कथं? भिक्षाकवलानां प्रतीताना पृथग् भेदेन विज्ञेयो ज्ञेयो वृद्धिहानिभ्यां । इति गाथार्थः ॥१८॥ इयं च चान्द्रायणप्रतिमा यवमध्या स्याद् व्रज्रमध्या च, तत्राद्यां तावदर्शयन्नाह - सुक्कम्मि पडिवयाओ, तहेव वुड्डीऍ जाव पन्नरस । पंचदसिपडिवयाहिं, तो हाणी किण्हपडिवक्खे ॥९१५॥ १९/१९ शुक्ले शुक्लपक्षे प्रतिपदः प्रथमतिथेरारभ्य तथैव तेनैव प्रकारेण एकाद्यकोत्तरलक्षणेन वृद्ध्या प्रतिदिनं भिक्षाणां कवलानां च वर्धनेन यावत् पञ्चदश भिक्षाः कवलान् वा गृह्णाति ।
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy