________________
गाथा-११-१५ १९-तपोविधि-पञ्चाशकम्
२४९ एतस्यैव प्रसंगेन लब्धिकालमाह - संवच्छरेण भिक्खा, लद्धा उसभेण लोगनाहेण । सेसेहिं बीयदियहे, लद्धा पढमभिक्खाओ ॥९०७॥ १९/११
संवत्सरेण भिक्षा लब्धा ऋषभेण लोकनाथेन । शेषैरिति व्यक्तम् । द्वितीयदिवस प्रव्रज्यादिवसापेक्षया लब्धाः प्रथमभिक्षाः इति व्यक्तम् । इति गाथार्थः ॥११॥ तथातित्थंकरनाणुप्पत्तिसन्निओ तहऽपरो तवो होति । पुव्वोइएण विहिणा, कायव्वो सो पुण इमो त्ति ॥९०८॥ १९/१२
तित्थं गाहा । तीर्थकरज्ञानोत्पत्तिरिति संज्ञा सञ्जाता यस्य तत् तीर्थकरज्ञानोत्पत्तिसंज्ञितं । पुंस्त्वं तु सर्वत्र प्राकृतत्वात् । तथति समुच्चये । अपरमन्यत् तपो भवति स्यात् । पूर्वोदितेन विधिना ऋषभादिक्रमेण गुर्वाज्ञया विशुद्धक्रियया च मतान्तरेण तन्मासदिनेष्वित्येवंलक्षणेन । 'कायव्वो त्ति' कार्य। 'सोपुण त्ति' तत्पुनः प्रस्तुततपः। 'इमोत्तिइदं वक्ष्यमाणम्। इतिः समाप्तौ। इति गाथार्थः ॥१२॥
एतदेवाह - - अट्ठमभत्तम्मि य, पासोसहमल्लिरिट्ठनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥९०९॥ १९/१३ उसभाइयाणमेत्थं, जायाइं केवलाइँ नाणाइं । एयं कुणमाणो खलु, अचिरेणं केवलं 'लहइ ॥९१०॥ १९/१४
अट्ठम गाहा। उसभ गाहा । अष्टमभक्तान्त एव उपवासत्रयावसान एव। चशब्द एवकारार्थः पार्श्वर्षभमल्लिरिष्टनेमीनां जिनानां केवलान्युत्पन्नानीति योगः । वासुपूज्यस्य द्वादशजिनस्य चतुर्थेनकोपवासरूपेण । षष्ठभक्तेनोपवासद्वयरूपेण शेषाणामेकोनविंशतेजिनानामिति ॥१३॥
ऋषभादिकानां जिनानां । अत्र तपसि कृते। जातान्युत्पन्नानि। केवलानि केवलसंज्ञितानि । ज्ञानानि संवेदनानि । अत एतत्तीर्थकरज्ञानोत्पत्तिसंज्ञितं तपः कुर्वाणः खल्वचिरेण केवलं लभत इति व्यक्तम् । उपैतीति पाठान्तरं चेति गाथाद्वयार्थः ॥१४॥ (१. उवेइ अटी.जे ।) तथातित्थगरमोक्खगमणं, अहावरो एत्थ होइ विन्नेओ। जेण परिनिव्वुया ते, महाणुभावा तओ य इमो ॥९११॥ १९/१५
तित्थ गाहा। तीर्थकरमोक्षगमनं नाम । अथानन्तरं । 'अवरो त्ति' अपरमत्र तपोऽधिकार। भवति स्यात् । 'विन्नेओ त्ति' विज्ञेयं येन तपसा परिनिर्वृता निर्वाणं गताः । ते
19