________________
२४८
१९- तपोविधि-पञ्चाशकम्
सुमतिः पञ्चमजिन: 'त्थ' इति पादपूरणे निपातः । नित्यभक्तेनानवरतभोजनेनाविहितोपवास इत्यर्थः । निर्गतो गृहवासान्निष्क्रान्तः । तथा वासुपूज्यो द्वादशो जिनोऽर्हन्। चतुर्थेनैकोपवासरूपेण। पार्श्वस्त्रयोविंशतितमः, मल्लिरेकोनविंशतितमः । अष्टमेनापवासत्रयरूपेण । शेषास्तु विंशतिः पुन: षष्ठेनोपवासद्वयरूपेण । इति गाथार्थः ॥७॥
I
एतद्विधानविधिमाह
-
उसभाइकमेणेसो, कायव्वो ओहओ सइ बलम्मि ।
. गुरु आणापरिसुद्धो, विसुद्धकिरियाऍ धीरेहिं ॥ ९०४ ॥ १९/८
गाथा - ८-१०
I
ऋषभादिक्रमेण नाभेयनिर्गमाद्यानुपूर्व्या एष तीर्थकरनिर्गमः कर्तव्यो विधेयः । ओघतः सामान्येनोत्सर्गेणेत्यर्थः । सति विद्यमाने बले शक्तौ । तथाविधबलाभावे पुनर्व्यतिक्रमकरणेऽपि न दोष इति भावः । गुर्वाज्ञया परिशुद्धो निर्दोषस्तत्संपादनाद् गुर्वाज्ञापरिशुद्धः । तथा विशुद्धक्रिययाऽनवद्यानुष्ठानेन | धीरैः सात्त्विकैः । इति गाथार्थः ॥८॥
इहैव मतान्तरमाह
अन्ने तम्मासदिणेसु, बेंति लिंगं इमस्स भावम्मि । तप्पारणसंपत्ती, तं पुण एयं इमेसिं तु ॥ ९०५ ॥ १९/९
-
अन्ने गाहा । अन्येऽपरे सूरयः तेषामृषभादिजिननिर्गमतपसां ये मासाः प्रतीता दिनानि च तिथयस्तानि तन्मासदिनानि तेषु न मासान्तरतिथ्यन्तरेषु । ब्रुवते तीर्थकरनिर्गमतपः । तथाहिऋषभस्वामिनो निष्क्रमणतपोऽङ्गीकृत्य चैत्रमासबहुलाष्टमीदिन एव षष्ठं कार्यम् । वर्धमानस्वामिनश्च मार्गशीर्षबहुलदशमीदिन एवेति । एवमन्येषामपीति । तथा लिङ्गं लक्षणम् । अ ऋषभादिनिर्गमतपसः भावे संसिद्धौ । तेषामृषभादीनां यस्य यत्पारणं भोजनमासीत्तस्य संपत्तिः प्राप्तिस्तत्पारणसंपत्ति: । तत्पुनः पारणकमेतद् वक्ष्यमाणमेषामृषभादीनाम् । तुशब्दः पूरणे । इति गाथार्थः॥९॥
तदेवाह -
उसभस्स उ इक्खुरसो, पारणए आसि लोगनाहस्स । सेसाणं परमण्णं, अमयरसरसोवमं आसी ॥ ९०६ ॥ १९/१०
ऋषभस्य तु नाभेयस्यैव इक्षुरसः पारणके आसील्लोकनाथस्येति व्यक्तम् । शेषाणामजितादीनां परमान्नं पायसं अमृतरसेन लोकरूढ्यपेक्षया रसे स्वादे उपमा यस्य तत्तथा तदासीदभूत् । इति गाथार्थः ॥१०॥