________________
गाथा-४-७
१९- तपोविधि-पञ्चाशकम्
स्यादिति गाथार्थः ॥३॥
एसो बारसभेओ, सुत्तनिबद्धो तवो मुणेयव्वो । एयविसेसो उ इमो, पन्नगोऽगभेदो ति ॥ ९००॥ १९/४
इह तपः शब्दस्य प्राकृतत्वेन पुल्लिंगनिर्देशः, एतदनन्तरोक्तं द्वादशभेदं उभयेषां भेदानां मीलना । सूत्रनिबद्धं शासनोक्तम् तपस्तपस्या 'मुणेयव्वो त्ति' ज्ञातव्यम् । एतद्विशेषस्तु अनन्तरोक्ततपोभेद एव । 'इमो त्ति' इदं वक्ष्यमाणं तपः प्रकीर्णकं व्यक्तितः सूत्रानिबद्धं न भिक्षुप्रतिमादीवत् सूत्रे निबद्धमित्यर्थः । न चोत्सूत्रत्वमस्य द्वादशभेदतपस्यन्तर्भावात् । तच्च अनेकभेदमनेकविधालंबनत्वात् । इतिशब्दः समाप्तौ । इति गाथार्थः ॥४॥
I
प्रकीर्णकमेव तपो दर्शयन्नाह -
२४७
तित्थगरनिग्गमादी, सव्वगुणपसाहणं तवो होइ ।
भव्वाण हिओ नियमा, विसेसओ पढमठाणीणं ॥ १०१ ॥ १९/५
तीर्थकर निर्गमादि येन तपसा तीर्थकरा निष्क्रान्ताः । आदिशब्दात् तीर्थकरज्ञाननिर्वाणादिग्रहः । किंभूतमिदमित्याह- सर्वगुणसाधकं तीर्थकरनिर्गमनाद्यालंबनस्य शुभभावप्रकर्षरूपत्वेन ऐहलौकिकाद्युपकारकारित्वात् । तपो भवतीति व्यक्तम् । अत एव भव्यानां हितं नियमादिति व्यक्तम् । विशेषतः पुनः प्रथमस्थानिनामव्युत्पन्नबुद्धीनाम्, हितत्वादेव निरालंबनतयापि शुभभावप्रकर्षसंभवात् सर्वमपि हितमेवेति गाथार्थः ॥५॥
तत्र तीर्थकरनिर्गमतपः प्रतिपादयंस्तावदाह
खलु,
तित्थगर निगमो ते जेण तवेण निग्गया सव्वे । ओसप्पिणीए सो पुण, इमीए एसो विणिद्दिट्ठो ॥९०२ ॥ १९/६
तीर्थकरैर्निर्गमे गृहवासाद् यत्कृतं तपस्तत्तीर्थकरनिर्गमः । खलुरलंकारे । तच्च कीदृशमिति ? आह-ते तीर्थकरा येन तपसा निर्गता गृहवासात् सर्वेऽवसर्पिण्याम् । 'सो पुण त्ति' तत्पुनस्तपोऽस्यां वर्तमानायाम् । 'एसा त्ति' एतद्वक्ष्यमाणम् । 'विणिद्दिट्ठोत्ति' उक्तम् । इति गाथार्थः॥६॥
एतदेवाह -
सुमइत्थ निच्चभत्तेण निग्गओ वसुपुज्ज जिणो चउत्थेण । पासो मल्ली विय अट्टमेण सेसा य छट्ठेणं ॥९०३॥ १९/७