________________
२४६
१९- तपोविधि-पञ्चाशकम्
गाथा - ३
स्यास्य लोकैरपि ज्ञायमानत्वात् । स्थूलदृष्टीनामपि च कुतीर्थिकानां तपस्तया प्रतीतत्वात् । तपः प्रतीतम् । भवति स्यात् । इति गाथार्थः ॥२॥
उक्तं बाह्यं तपोऽथान्तरमाह
-
पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ ।
झाणं उस्सग्गो विय, अब्भितरओ तवो होइ ॥८९९॥ १९/३
प्रायश्चित्तमुक्तशब्दार्थमालोचनादि प्रागुक्तम् । तथा विनीयतेऽपोह्यते कर्मानेनेति विनयः । स च ज्ञान-दर्शन- चारित्र-मनो- वाक्- कायोपचारभेदात् सप्तधा । तत्राद्यो मत्यादीनां श्रद्धानभक्तिबहुमान-तद्दृष्टार्थभावना - विधिग्रहणाभ्यासरूपः । द्वितीयस्तु सम्यग्दर्शनगुणाधिकेषु शुश्रूषानाशातनाभेदात् द्वेधा । तयोश्चाद्यः सत्कारा॑भ्युत्थान॒सन्मानसनाभिग्रहाँसनानुप्रदानेकृतिकर्माञ्जलिप्रग्रहा ँ गच्छदनुगमनस्थितपर्युपासनंगच्छदनुब्रजनं भेदाद् दशधा प्रसिद्ध एव । नवरं सत्कारो वन्दनादि-रभ्युत्थानं गौरव्यदर्शने विष्टरत्यागः, सन्मानो वस्त्रादिपूजनम्, आसनाभिग्रह पुनस्तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनम्, आसनानुप्रदानं त्वासनस्य स्थानान्तररसञ्चारणम्, आगच्छतोऽनुगमनमभिमुखयानमिति । अनाशातनाविनयस्तु पञ्चदशधा । तद्यथा - जिनधर्मसूरिवाचकस्थविरकुलगणसङ्घसाम्भोगिकक्रियाज्ञानपञ्चकानामनाशातना भक्तिबहुमानवर्णवादाश्चेति । अत्र च क्रिया- आस्तिक्यमुच्यते । चारित्रविनयस्तु सामायिकादिचारित्राणां श्रद्धानकरणप्ररूपणानि । मनोवाक्कायविनयास्तु आचार्यादिष्वकुशलानां चित्तादीनां सदा निरोधः, कुशलानां पुनरुदीरणेति । उपचारविनयस्तु सप्तधा-अभ्यासासनं (१) छन्दोनुवर्तनं, (२) कृतप्रतिकृति: (३) कारित-निमित्तकरणं (४) दुःखार्तगवेषणं (५) देशकालज्ञानं (६) सर्वत्रानुमतिश्चेति (७)। प्रतीतश्चायं नवरं कृतप्रतिकृतिर्नाम विनयात् प्रसादिताः सूरयः श्रुतं दास्यन्तीत्यभिप्रायेणाशनदानादियत्नः । कारितनिमित्तकरणं तु सम्यगर्थपदमध्यापितस्य विशेषेण विनये वृत्तिस्तदर्थानुष्ठानं चेति । दुःखार्तगवेषणं तु दु:खितस्य प्रतीकारकारणमिति । तथा व्यावृत्तस्याशनादिदानव्यापारवतो भावः कर्म वा वैयावृत्यम्, तच्चाचार्योपाध्याय(१-२)स्थविर(३) तपस्वि(४)ग्लान ( ५ ) शैक्ष (६) साधर्मिक ( ७ )कुल(८)गण(९)संघ(१०)भेदाद् दशधा । तथैवेति समुच्चये । सुष्ठु आ मर्यादयाऽध्यायोऽध्ययनं स्वाध्यायः । स च पञ्चधा-वाचना(१)पृच्छना(२) परिवर्तना (३) अनुप्रेक्षा(४) धर्मकथा (५) भेदादिति । तथा ध्यातिर्ध्यानं अन्तर्मुहूर्तमात्रं चित्तैकाग्रता । तच्चार्त - रौद्र - धर्म - शुक्लभेदाच्चतुर्धा । तत्राद्ययोर्भवहेतुत्वादितरयोश्च मुक्तिनिमित्तत्वादितरे एव तपः । तथा उत्सर्जनं त्यजनं उत्सर्गः । स च द्वेधा द्रव्यतो भावतश्च । द्वावपि चतुर्धा, तत्र द्रव्यतश्चतुर्धा गणशरीरोपध्याहारभेदात्। भावतस्तु चित्तकोपादित्यागरूपत्वादस्य । ‘अब्भितरउ त्ति' आभ्यन्तरकमबाह्य लौकिकैः प्रायोऽनभिलक्ष्यत्वात् तन्त्रान्तरीयैर्भावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्च तपो निर्जराहेतुर्भवति