SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ | ॥ एकोनविंशतितमं तपोविधि-पञ्चाशकम् ॥१९॥ __ अनन्तरं भिक्षुप्रतिमा उक्तास्तपोरूपाश्च ता इत्यतस्तपः स्वरूपनिरूपणाय प्रकरणं प्रतिपिपादयिषुर्मंगलाद्यभिधानायाह - नमिऊण वद्धमाणं, तवोवहाणं समासओ वोच्छं । सुत्तभणिएण विहिणा, सपरेसिमणुग्गहट्ठाए ॥८९७॥ १९/१ नत्वा प्रणम्य वर्धमानं वीरं तपउपधानं तपोरूपं संयमकायोपष्टंभनं तपोविधानं वा तपोऽनुष्ठानं समासतः संक्षेपेण वक्ष्ये भणिष्यामि । सूत्रभणितेनागमोक्तेन विधिना प्रकारेण स्वपरेषामनुग्रहार्थाय स्वपरोपकारायेत्यर्थः । इति गाथार्थः ॥१॥ अथ तपोभेदान् दर्शयन्नाह - अणसणमूणोयरिया, वित्तीसंखेवणं रसच्चाओ। . कायकिलेसो संलीणया य बज्झो तवो होइ ॥८९८॥ १९/२ अनशनमभोजनं यावत्कथिकेत्वरभेदम् । तत्र यावत्कथिकं पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति त्रिधा । तत्राद्यं सर्वथा परिस्पन्दवजितमप्रतिकर्म चतुर्विधाहारत्यागनिष्पन्नं च । द्वितीयमपि तथैव, नवरमिङ्गितदेशे चक्रमणाद्यपरिहारवत् । तृतीयं तु सप्रतिकर्म त्रिविधचतुर्विधाहारत्यागनिष्पन्नं चेति । इत्वरं पुनश्चतुर्थभक्तादि षण्मासान्तम् । (१) तथोनोदरस्य स्तोकाहाराभ्यवहारादपरिपूर्णोदरस्य करणम् ऊनोदरिका । सा च द्रव्यतो द्वात्रिंशत्कवलमानपूर्णाहारापेक्षयैकादिकवलन्यूनाहारग्रहणतोऽनेकविधा । भावोनोदरिका तु कषायत्यागः । (२) तथा वृत्तेर्भिक्षाचर्यायाः संक्षेपणमल्पताकरणं वृत्तिसंक्षेपणं द्रव्याद्यभिग्रहग्रहणम् । तत्र द्रव्यतो 'लेपकृदेवेतरदेव वा द्रव्यं मया ग्राह्यम्' इत्यादि। एवं क्षेत्रतः स्वग्राम एव परग्राम एव वा एतावत्स्वेव वा गृहेषु यल्लप्स्यत इत्यादि । एवं कालतः पूर्वाह्ने मध्याह्नेऽपराह्ने वा । भावतः पुनरुत्क्षिप्तमेव वा निक्षिप्तमेव वा गायतो वा रुदतो वा यल्लप्स्यत इत्यादि । (३) तथा रसानां दुग्धदध्यादीनां सर्वेषामन्यतरेषां वा त्यागस्त्यजनं रसत्यागः । (४) तथा कायस्य देहस्य क्लेशः, औचित्येन विबाधनं कायक्लेशो वीरासनोत्कटुकासनगोदोहिकाशीतवातातपसहनशिरोलोचादिरनेकविधः । (५) तथा संलीनस्य संवृतस्य भावः संलीनता । सा चेन्द्रियकषाय-योग-विविक्तचर्याभेदाच्चतुर्धा । तत्राद्यत्रयं प्रतीत। विविक्तचर्या तु स्त्रीपशुपण्डककुशीलवर्जानवद्याश्रयाश्रयणम् । (६) च शब्दः समुच्चये। बाह्यं अनाभ्यन्तरम् आसेव्यमान
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy