________________
२४४
१८-भिक्षुप्रतिमा-पञ्चाशकम् गाथा-४९-५० एतदकरणे दोषमाह - एएसिं सइ विरिए, जमकरणं मयपमायओ सो उ। होअइयारो सो पुण, आलोएयव्वओ गुरुणो ॥८९५॥ १८/४९
'एएसिं ति' एतेषां प्रतिज्ञाविशेषाणां 'सइ त्ति' विद्यमाने 'विरिए त्ति' वीर्ये 'जमकरणं ति' यदविधानम् । कथं ? 'मयप्पमायओ त्ति' गर्वालस्याभ्यां । 'सो उत्ति' स पुनः । 'होयइयारो त्ति' जायतेऽतिक्रमश्चरणस्य। 'सो पुण त्ति' सोऽतिचारः पुनः । 'आलोएयव्वओ ति' निवेदनीयः शुद्ध्यर्थम् । 'गुरुणो त्ति' आलोचनाचार्यस्य । इति गाथार्थः ॥४९॥
उक्तार्थफलभणनेन प्रकरणमुपसंहरन्नाह - इय सव्वमेवमवितहमाणाए भगवओ पकुव्वंता ।
सयसामत्थणुरूवं, अइरा काहिति भवविरहं ॥८९६॥ १८/५० ___ 'इय त्ति' एतदभिग्रहजातम् । 'सव्वं ति' समस्तम् । ‘एवं ति' एवमुक्तन्यायेन । 'अवितहं ति' अविपरीतम् । कथं ? 'आणाए त्ति' आदेशेन, न स्वमत्या । कस्येत्याह-'भगवओ त्ति' आप्तस्य । पकुव्वन्त त्ति' प्रकुर्वाणाः । कथमिति? आह-'सयसामत्थणुरूवं ति' निजशक्त्यनुसारेण । 'अइर त्ति' शीघ्रम् । 'काहिति त्ति' विधास्यन्ति । 'भवविरहं ति' संसारक्षयम् । इति गाथार्थः ॥५०॥
[अष्टादशं भिक्षुप्रतिमा पञ्चाशकं समाप्तम् ] ॥ प्रतिमाकल्पप्रकरणं वृत्तितः समाप्तमिति ॥