________________
२५८ १९-तपोविधि-पञ्चाशकम्
गाथा-४४ प्रार्थना याचा तत्प्रधानं यच्चित्तं मनस्तेन तुल्यं समानं यत् तद् आरोग्यबोधिलाभादिप्रार्थनाचित्ततुल्यं । इति कृत्वा । इति गाथाद्वयार्थः ॥४३॥
एवमनन्तरोक्तं तपो निर्निदानमिति व्यवस्थापितमथोपदिशन्नाह - जम्हा एसो सुद्धो, अणियाणो होइ भावियमईणं । तम्हा करेह सम्मं, जह विरहो होइ कम्माणं ॥९४०॥ १९/४४
यस्मात् कारणात् ‘एसा त्ति' इदमनन्तरोक्तं तपः शुद्ध निर्दोष भवति स्यात्। किंभूतं सदिति ? आह-अनिदानं प्रागुक्तयुक्त्या निदानवर्जितम् । केषामिदमेवंविधमिति ? आहभावितमतीना सदागमवासितमानसानां तस्मात् कारणात् कुरुत विधत्त । एतदेवेति गम्य सम्यग् भावशुद्ध्या । एतदेव व्यक्ततरमाह-यथा येन प्रकारेण विरहो विनाशो भवति जायत कर्मणां ज्ञानावरणादीनाम् । इह च विरहशब्देन श्रीहरिभद्राचार्यकृतता प्रकरणस्य सूचिता, विरहाङ्कत्वात् तस्येति गाथार्थः ॥४४॥
॥एकोनविंशतितमं तपोविधि पञ्चाशकं वृत्तितः समाप्तम् ॥१९॥
समाप्ता चेयं शिष्यहितानाम्नी सितपटपटलप्रधानप्रावचनिक पुरुषप्रवरचतुर्दशशतसंख्याप्रकरणप्रबन्धप्रणायिसुगृहीतनामधेय
श्रीहरिभद्रसूरिविरचितपञ्चाशकाख्यप्रकरणटीकेति ॥ यस्मिन्नतीते श्रुतसंयमश्रियावप्राप्नुवत्यावपरं तथाविधम् । . स्वस्याश्रयं संवसतोऽतिदुःस्थिते, श्रीवर्धमानः स यतीश्वरोऽभवत् ॥१॥ शिष्योऽभवत्तस्य जिनेश्वराख्यः, सूरिः कृतानिन्द्यविचित्रशास्त्रः । सदा निरालम्बविहारवर्ती, चन्द्रोपमश्चन्द्रकुलाम्बरस्य ॥२॥ अन्योऽपि वित्तो भुवि बुद्धिसागरः, पाण्डित्यचारित्रगुणैरनोपमैः । शब्दादिलक्ष्मप्रतिपादकानघग्रन्थप्रणेता प्रवरः क्षमावताम् ॥३॥ तयोरिमां शिष्यवरस्य वाक्याद्, वृत्ति व्यधात् श्रीजिनचन्द्रसूरेः । शिष्यस्तयोरेव विमुग्धबुद्धिम्रन्थार्थबोधेऽभयदेवसूरिः ॥४॥ बोधो न शास्त्रार्थगतोऽस्ति तादृशो, न तादृशी वाक्पटुताऽस्ति मे तथा । न चास्ति टीकेह न वृद्धनिर्मिता, हेतुः परं मेऽत्र कृतौ विभोर्वचः ॥५॥