________________
गाथा
२५९
१९-तपोविधि-पञ्चाशकम् यदिह किमपि दृब्धं बुद्धिमान्द्याद् विरुद्धं, मयि विहितकृपास्तद्धीधनाः शोधयन्तु । निपुणमतिमतोऽपि प्रायशः सावृतेः स्यान्न, हि न मतिविमोहः किं पुनर्मादृशस्य ? ॥६॥ चतुरधिकविंशतियुते वर्षसहस्रे शते च सिद्धेयम्। धवलक्कपुरे वसतौ धनपत्योर्बकुलबन्दिकयोः ॥७॥ अणहिलपाटकनगरे संघवरैर्वर्तमानबुधमुख्यैः । श्रीद्रोणाचार्यायविद्वद्भिः शोधिता चेयम् ॥८॥
- (ग्रन्थाग्रं-८७५०) ॥ वैक्रमीये २०७० तमे वर्षे मुनिधर्मरत्नविजयेन संशोधितं सम्पादितञ्चेदं पूर्वगतार्थतारतारकज्ञानधारकश्रीहरिभद्रसूरिशेखरप्रणीतं
सविवरणं पञ्चाशकप्रकरणं
समाप्तम् ॥