Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________
२२७
गाथा-४२-४५ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम्
तदेवाह - पुरिमाण दुव्विसोज्झो, चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं, सुविसोज्झो सुहणुपालो य ॥८३६॥ १७/४२
[पूर्वेषाम्] पूर्व(आद्य, अटी.)तीर्थकरसाधूनाम्, दुर्विशोध्यो दुर्विशोधनीयः चरमतीर्थकरसाधूनां दुःखेनानुपाल्यत इति दुरनुपालः, स एव दुरनुपालकः कल्पः प्रस्तुतः । मध्यमकानां जिनानां मध्यमतीर्थकरसाधूनाम्, सुविशोध्यः सुशोधनीयः, सुखेनानुपाल्यत इति सुखानुपालश्च ॥४२॥ उज्जुजडा पुरिमा खलु, णडादिणायाउ होति विण्णेया । वक्कजडा पुण चरिमा, उजुपण्णा मज्झिमा भणिया ॥८३७॥ १७/४३
ऋजवश्च ते जडाश्च ऋजुजडाः। पूर्वे पूर्वतीर्थकरसाधवः। खलु नटादिज्ञातात् आदिशब्दात् प्रेक्षणकादि-परिग्रहः, भवन्ति विज्ञेयाः, ऋजुत्व-जडत्वाभ्यां तेषां हीदं जडत्वं-यन्नटाद्यवलोकेन निषिद्धे, प्रेषणकांद्यप्रतिषिद्धं मन्यमानाः पश्यन्त्येव, गुरुभिस्तु रागद्वेषादिमूलत्वेन तस्मिन्नेव निवारिते, स्वच्छाऽऽशयत्वात् तदपि तथाविधं मन्यमानाः परिहरन्तीति तेषामृजुत्वं । वक्रः जडाः पुनश्चरमतीर्थकरसाधवः, सामान्येन जडत्वाद् दोषाऽऽसेवनेऽपि भूयसामृजुत्वपरिणामाभावात् वक्रत्वोपपत्तेः । ऋजुप्रज्ञा । प्रजानन्तीति प्रज्ञाः । 'आतश्चोपसर्ग'इति जानातेः प्रोपसर्गपूर्वात्कर्तरि कः । जडप्रतिपक्षभूतगुणपरिग्रहश्चानेनोक्तः, ऋजुत्वं शुभभावत्वम्, ऋजवश्च ते प्रज्ञाश्चेति समासः, मध्यमा मध्यमतीर्थकरसाधवः भणिताः कथिताः ॥४३॥
कालसहावाउ च्चिय, एतो एवंविहा उ पाएणं । होंति अओ उ जिणेहि, एएसि इमा कया मरा ॥८३८॥ १७/४४
कालस्वभावादेव तावत्कालसामर्थ्यादेव, एते ऋजु-जडादयः । एवंविधास्तु व्यावणितस्वभावा एव, प्रायेण बाहुल्येन, भवन्ति जायन्ते तत्तत्कालविभागाः अतस्तु अत एव हेतोः जिनर्भगवद्भिरनुग्रहप्रभृतैः एतेषामृजुजडादीनां कृत्वा, विहिता इयमक्तस्वरूपा मेरा मर्यादा ॥४४॥ (१. मेर-अटी.)
एवंविहाण वि इहं, चरणं दिळं तिलोगणाहेहिं । जोगाण थिरो भावो, जम्हा एएसि सुद्धो उ ॥८३९॥ १७/४५

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362