Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 281
________________ २४० १८- भिक्षुप्रतिमा-पञ्चाशकम् गाथा -४०-४४ अतो हेतोः अतीव ज्ञेया सुश्लिष्टा सुयुक्ता धर्मकायपीडापि धर्मशरीराबाधापि, अन्तमत्तुं शीलमस्येति अन्तादी, तस्याऽन्तादिनः अन्तप्रान्ताशिनः, सकामा समनोरथाः स्वाभिप्रायप्रवृत्तत्वात्, तथा तेन रूपेण, तस्य प्रतिमाप्रतिपन्नस्य, अदीनचित्तस्यादीनमनसः ॥३९॥ एतदेव समर्थयते नहु पडइ तस्स भावो, संजमठाणाउ अवि य वड्ढेइ । न य कायपायओऽवि हु, तदभावे कोइ दोसो त्ति ॥८८६ ॥ १८/४० न हु नैवेतत्, पतति प्रच्यवते, तस्य प्रतिमाप्रतिपन्नस्य, भावोऽध्यवसायः, संयमस्थानाच्चारित्रस्थानाद् अपि च किन्तु, वर्धते वृद्धिमनुभवति, न च कायपाततोऽपि कायप्रतिपातादपि, हुर्वाक्यालङ्कारे, तदभाव भावप्रतिपत्त्यभावे, कश्चिद्दोष इति, नैव इत्यर्थः ॥४०॥ चित्ताणं कम्माणं, चित्तो च्चिय होइ खवणुवाओ वि । अणुबंधछेयणादी, सो उण एवं ति णायव्वो ॥८८७ ॥ १८/४१ चित्राणां चित्रस्वभावानां कर्मणां ज्ञानावरणादीनां चित्र एव प्रतिमानुष्ठानादिभि: भवति सम्भवति, क्षपणोपायोऽपि क्षयहेतुरपि अनुबन्धच्छेदनादिः सन्ततिर्निवर्त्तनादिः । स पुनः क्षपणोपायः । एवमिति प्रतिमाकल्पविधानेन, ज्ञातव्यो विज्ञेयः ॥ ४१ ॥ इहरा उ णाभिहाणं, जुज्जइ सुत्तंमि हंदि एयस्स । एमि अवसरंमी, एसा खलु तंतजुत्ति ति ॥८८८॥ १८/४२ इतरथा त्वन्यथा तु नाभिधानं न प्रतिपादनं युज्यते घटते, सूत्र आगमे, हन्तैतस्य प्रतिमाकल्पस्य एतस्मिन्नवसरे प्रतिमाकल्पयोग्ये, एषा खलु एषैव तन्त्रयुक्तिरित्यागमयुक्तिः ॥ ४२॥ अण्णे भांति एसो, विहियाणुट्टाणमागमे भणिओ । पडिमाकप्पो सेट्ठो, दुक्करकरणेण विपणेओ ॥८८९॥ १८/४३ अन्ये अपरे सूरयः स्वतन्त्रस्थिता एव सूक्ष्मबुद्धिविकला, भणन्ति प्रतिपादयन्ति, एष प्रतिमाकल्पो, विहितानुष्ठानं कर्तव्यरुपम्, आगमे शास्त्रे, भणितः प्रतिपादितः, प्रतिमाकल्पः श्रेष्ठः आगमोक्तत्वमात्रादेव, दुष्करकरणेन दुष्करक्रियया, विज्ञेयोऽवबोद्धव्यः ॥४३शु एतत्परिहारायाह - विहियाणुट्ठाणं पि य सदागमा एस जुज्जई एवं । जम्हा न जुत्तिबाहियविसओ वि सदागमो होति ॥८९०॥ १८/४४

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362