________________
२४०
१८- भिक्षुप्रतिमा-पञ्चाशकम्
गाथा -४०-४४
अतो हेतोः अतीव ज्ञेया सुश्लिष्टा सुयुक्ता धर्मकायपीडापि धर्मशरीराबाधापि, अन्तमत्तुं शीलमस्येति अन्तादी, तस्याऽन्तादिनः अन्तप्रान्ताशिनः, सकामा समनोरथाः स्वाभिप्रायप्रवृत्तत्वात्, तथा तेन रूपेण, तस्य प्रतिमाप्रतिपन्नस्य, अदीनचित्तस्यादीनमनसः ॥३९॥ एतदेव समर्थयते
नहु पडइ तस्स भावो, संजमठाणाउ अवि य वड्ढेइ ।
न य कायपायओऽवि हु, तदभावे कोइ दोसो त्ति ॥८८६ ॥ १८/४०
न हु नैवेतत्, पतति प्रच्यवते, तस्य प्रतिमाप्रतिपन्नस्य, भावोऽध्यवसायः, संयमस्थानाच्चारित्रस्थानाद् अपि च किन्तु, वर्धते वृद्धिमनुभवति, न च कायपाततोऽपि कायप्रतिपातादपि, हुर्वाक्यालङ्कारे, तदभाव भावप्रतिपत्त्यभावे, कश्चिद्दोष इति, नैव इत्यर्थः ॥४०॥
चित्ताणं कम्माणं, चित्तो च्चिय होइ खवणुवाओ वि । अणुबंधछेयणादी, सो उण एवं ति णायव्वो ॥८८७ ॥ १८/४१
चित्राणां चित्रस्वभावानां कर्मणां ज्ञानावरणादीनां चित्र एव प्रतिमानुष्ठानादिभि: भवति सम्भवति, क्षपणोपायोऽपि क्षयहेतुरपि अनुबन्धच्छेदनादिः सन्ततिर्निवर्त्तनादिः । स पुनः क्षपणोपायः । एवमिति प्रतिमाकल्पविधानेन, ज्ञातव्यो विज्ञेयः ॥ ४१ ॥
इहरा उ णाभिहाणं, जुज्जइ सुत्तंमि हंदि एयस्स ।
एमि अवसरंमी, एसा खलु तंतजुत्ति ति ॥८८८॥ १८/४२
इतरथा त्वन्यथा तु नाभिधानं न प्रतिपादनं युज्यते घटते, सूत्र आगमे, हन्तैतस्य प्रतिमाकल्पस्य एतस्मिन्नवसरे प्रतिमाकल्पयोग्ये, एषा खलु एषैव तन्त्रयुक्तिरित्यागमयुक्तिः ॥ ४२॥
अण्णे भांति एसो, विहियाणुट्टाणमागमे भणिओ । पडिमाकप्पो सेट्ठो, दुक्करकरणेण विपणेओ ॥८८९॥ १८/४३
अन्ये अपरे सूरयः स्वतन्त्रस्थिता एव सूक्ष्मबुद्धिविकला, भणन्ति प्रतिपादयन्ति, एष प्रतिमाकल्पो, विहितानुष्ठानं कर्तव्यरुपम्, आगमे शास्त्रे, भणितः प्रतिपादितः, प्रतिमाकल्पः श्रेष्ठः आगमोक्तत्वमात्रादेव, दुष्करकरणेन दुष्करक्रियया, विज्ञेयोऽवबोद्धव्यः ॥४३शु
एतत्परिहारायाह -
विहियाणुट्ठाणं पि य सदागमा एस जुज्जई एवं ।
जम्हा न जुत्तिबाहियविसओ वि सदागमो होति ॥८९०॥ १८/४४