SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ गाथा- ४५-४६ १८- भिक्षुप्रतिमा-पञ्चाशकम् २४१ विहितानुष्ठानमपि च कर्तव्यरूपोऽपि, सदागमात् सुन्दरागमात्, एष प्रतिमाकल्पो युज्यते घटते, एवमुक्तं वैतत् यस्माद्धेतोः न नैव युक्तिभिर्बाधितो विषयोऽस्येति युक्तिबाधितविषयः । सोऽपि युक्तिबाधितविषयोऽपि, सदागमः प्रशस्तागमो भवति नैव भवतीत्यर्थः ॥४४॥ जुत्तीए अविरुद्धो, सदागमो सावि तदविरुद्ध त्ति । इय अण्णोऽण्णाणुगयं, उभयं पडिवत्तिहेउ ति ॥८९१ ॥ १८/४५ युक्त्या अविरुद्धोऽबाधितः, सदागमः शोभनागमः साऽपि युक्तिः प्रत्यक्षादिका, तदविरुद्धेति आगमाविरुद्धः इत्यवम् अन्योऽन्यानुगतं परस्परानुगतम्, उभयं युक्तिसदागमरूपम्, प्रतिपत्तिहेतुरिति प्रतिपत्त्युपाय अतीन्द्रियार्थेषु ॥४५॥ कयमेत्थ पसंगेणं झाणं, पुण निच्चमेव एयस्स । 'सुत्तत्थाणुसरणओ, रागादिविणासणं परमं ॥८९२॥ १८/४६ कृतमत्र पर्याप्तमत्र, प्रसङ्गेन विस्तरेण, ध्यानं पुनरेकाग्रतारूपम् । नित्यमेव सदैव वै एतस्य प्रतिमाप्रतिपन्नस्य, सूत्रार्थानुस्मरणतः सूत्रार्थयोरनुस्मरणात्, रागादिविनाशनं रागद्वेषमोहापहारहेतु:, परम प्रधानं धर्मादि परमत्वं च तस्य मुक्तिहेतुत्वादिति ॥४६॥ [अभयदेवसूरिपादैरयं पाठः पाठान्तरत्वेन उपात्तः । स्वयं तु 'सुत्तत्थाणुसरणं' इति प्रथमान्तम्, तथा 'ओ' इति पूर्णार्थं स्वीकरोति, ] ( १ . सुत्तत्थाणुसरणं ओ अटी. । २. रम्मं अटी. 1) ॥ साधुप्रतिमाप्रकरणम् ॥१८॥ ॥ छ ॥ कृतिरियं श्रीश्वेताम्बराचार्ययशोभद्रस्येति । संवत ११२१ ज्येष्ठसुदि ११ बुधदिने ॥ छ ॥ श्रीरस्तु ॥ जसोधरेण लिखितम् - ससहरकुलम्मि विउले आसि ससहरकरसरिसगुणकलिओ । कलिमलकलंकमुक्को सिरिसूरिजिणेसरो नाम ॥१॥ तस्सऽत्थि सीसपवरो, सीसो जिणसासणसाहणेक्कतल्लेसो । जिणचंदसूरिनामो दिणनाहो व्व पसिद्धओ तवसा ॥२॥ अण्णो वि अत्थि पवरो भव्वो भव्वाण बोहणिक्करओ । सिरि अभयदेवसूरीथिरो थेरो इव अत्थि वेयविऊ ॥३॥ तत्तो वि य दढधम्मो धम्मरुई धम्मदेसओऽत्थि मुणी । लद्ध्रुवज्झायपओ सीसो सिरिधम्मदेवो त्ति ||४||
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy