Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 293
________________ २५२ १९-तपोविधि-पञ्चाशकम् गाथा-२३-२६ किञ्च - अन्नो वि अत्थि चित्तो, तहा तहा देवयानिओगेण । मुद्धजणाण हिओ खलु, रोहिणिमादि मुणेयव्वो ॥९१९॥ १९/२३ अन्नो गाहा। अन्नो वित्ति अन्यदपि अस्ति विद्यते । चित्र विचित्रं तप इति गम्यते । तथा तथा तेन तेन प्रकारेण लोकरूढेन देवतानियोगेन देवतोद्देशेन मुग्धजनानामव्युत्पन्नबुद्धिलोकानां हितं खलु पथ्यमेव विषयाभ्यासरूपत्वात् रोहिण्यादिदेवतोद्देशेन यत्तद्रोहिण्यादि 'मुणेयव्वो त्ति' ज्ञातव्यम् । पुल्लिंगता च सर्वत्र प्राकृतत्वात् । इति गाथार्थः ॥२३॥ देवता एव दर्शयन्नाह - रोहिणी अंबा तह मंदउन्निया सव्वसंपयासोक्खा । सुयसंतिसुरा काली, 'सिद्धाइया तहा चेव ॥९२०॥ १९/२४ रोहिणि गाहा। रोहिणी (१), अंबा (२) तथा मन्दपुण्यिका (३)। 'सव्वसंपयासोक्ख त्ति' सर्वसंपत् (४) सर्वसौख्या चेत्यर्थः (५)। 'सुयसंतिसुर त्ति' श्रुतदेवता (६) शान्तिदेवता (७) चेत्यर्थः, 'सुयदेवय-संति-सुरा' इति वा पाठान्तरं व्यक्तं च । काली, (८) सिद्धायिका (९) इत्येता नव देवताः, तथा चैवेति समुच्चयार्थः, 'संबाइया चेव त्ति' पाठान्तरं । इति गाथार्थः ॥२४॥ (१. सुयदेवय-संति-सुरा. अटी. जे. । २. संबाइया चेव अटी. ।) ततः किमित्याह - एमादिदेवयाओ, पडुच्च अवऊसगा उ जे चित्ता । नाणादेसपसिद्धा, ते सव्वे चेव होन्ति तवो ॥९२१॥ १९/२५ एमा गाहा । एवमादिदेवताः प्रतीत्यैतदाराधनयेत्यर्थः । 'अवऊसग त्ति' अपवसनानि अवजोषणानि वा तुः पूरणे ये चित्रा नानादेशप्रसिद्धास्ते सर्वे चैव भवन्ति तपः इति स्फुटमिति । तत्र रोहिणीतपो रोहिणीनक्षत्रदिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत्। तत्र च वासुपूज्यजिनप्रतिमाया:प्रतिष्ठा पूजा च विधेयेति । तथा अम्बातपः पञ्चसु पञ्चमीष्वेकाशनादि विधेयं नेमिनाथाम्बिकापूजा चेति । तथा श्रुतदेवतातप एकादशस्वेकादशीषूपवासो मौनव्रतं श्रुतदेवतापूजा चेति । शेषाणि तु रूढितोऽवसेयानीति गाथार्थः ॥२५॥ अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशङ्क्याह - जत्थ कसायनिरोहो, बंभं जिणपूयणं अणसणं च । सो सव्वो चेव तवो, विसेसओ मुद्धलोयम्मि ॥९२२॥ १९/२६

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362