Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 385
________________ SAMSKRUT तइएवि अविहिगहिअं विहिभुत्तं तं गुरूहिऽणुन्नायं सेसा नाणुन्नाया गहणे दत्ते य निजुहणा ॥२९९॥ (भा) | अहवावि अकरणाए उवाट्ठिय जाणिऊण कल्लाणं । घट्टेउं दिति गुरू पसंगविणिवारणट्ठाए॥ ३०॥ (भा०) विधिनोद्गमदोषादिरहितं सारासारविभागेन च यन्न कृतं पात्रके तद्विधिगृहीतं, तथा 'विधिभुक्तं' कटकच्छेदेन प्रतरच्छेदादिना वा यद्भुक्तं तद्विधिभुक्तमुच्यते, तदेवंविधं विधिगृहीतं विधिभुक्तं च यद्यदतिरिक्तं संजातं भक्तं पानकं वा तद्भोक्तव्यं-परिष्ठापनकं कल्पते, अत आह प्रकारान्तरेण-अत्र च विधिगृहीते विधिभुक्ते चास्मिन् पदद्वये चत्वारो दूभङ्गका भवन्ति, तद्यथा-विहिगहि विहिभुत्तं एगो भंगो, विहिगहिअं अविहिभुत्तं बिइओ, अविहिगहिरं विहिभुतं | तइओ, अविहिगहिअं अविहिभुत्तं चउत्थो ॥ इदानीं भाष्यकारो विधिगृहीताविधिगृहीतयोः स्वरूपं प्रतिपादयन्नाहउद्गमदोषादिभिर्जढं-त्यक्तं यत्तद्विधिगृहीतं, अथवा यद्वस्तु मण्डकादि यथैव यस्मिन् स्थाने पतितं भवति तत्तथैवास्ते नतु समारयति इत्येष ग्रहणविधिः । 'असुद्धपच्छायणे अविहीं' अशुद्धस्य-उद्गमादिदोषान्वितस्य यग्रहणं इदमविधिग्रहणं, अथवा गुडादेव्यस्य मण्डकादिना प्रच्छाद्य यदेकत्र पात्रकदेशे स्थापनं तविधिग्रहणमुच्यते । इदानीमविधिविधिभोजनयोः स्वरूपं प्रतिपादयन्नाह-काकभुक्तं शृगालभुक्तं द्रावितरसमित्यर्थः 'सर्वतः परामृष्टम्' उत्थल्लपत्थल्लणेण भुक्तं 'एसो उ.भवे अविहीं' इदं पूर्वोक्तमविधिना भुक्तमुच्यते, यथैव गृहीतं पात्रके तथैव भुञ्जतो विधिभुक्तमुच्यते । अधुना भाष्यकृद् व्याख्यानयति, तत्राद्यावयवप्रतिपादनायाह-यथा काक उच्चित्योच्चित्य विष्ठादेमध्यावल्लादि भक्षयति एवमसावपि, अथवा विकिरति काकवदेव सर्वं, तथा काकवदेव कवलं प्रक्षिप्य मुखे दिशो विप्रेक्षते, तथा शृगाल इवान्य Jain Education Theatonal For Personal & Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456