Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 429
________________ घणं मूले थिरं मज्झे, अग्गे मद्दवजुत्तया । एगंगियं अज्झसिरं, पोरायामं तिपासियं ॥ ७०७ ॥ मूलदण्डपर्यन्ते 'घनं' निबिडं भवति 'मध्ये' मध्यप्रदेशे स्थिरं कर्त्तव्यम् 'अग्गे' दसिकापर्यन्ते 'मार्दवयुक्तं ' मृदु कर्त्तव्यम्, 'एकाङ्गिक' तज्जातदसिकं सदसिकाकम्बलीखण्डनिष्पादितमित्यर्थः । 'अज्झसिरं' अग्गंथिला दशिका निषद्या च यस्य तदशुषिरम्, 'पोराया मं' ति अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावन्मात्रं शुषिरं भवति तदापूरकं कर्त्तव्यं, दण्डिकायुक्ता निषद्या यथा तावन्मात्रं पूरयति तथा कर्त्तव्यम्, 'त्रिपासितं ' त्रीणि वेष्टनानि दवरकेन दत्त्वा पासितं पाशबन्धनेन । किञ्च, अप्पोल्लं मिउ पम्हं च, पडिपुन्नं हत्थपूरिमं । रयणीपमाणमित्तं, कुज्जा पोरपरिग्गहं ॥ ३२२ ॥ ( भा० ) अमुमेव श्लोकं भाष्यकारो व्याचष्टे-'अप्पोल्लं' दृढवेष्टनाद् घनवेष्टनात् कारणात्, मृदु पक्ष्म च कर्त्तव्यं - मृदूनि दशिकापक्ष्माणि क्रियन्ते । 'प्रतिपूर्ण' सद् वाह्येन निषद्याद्वयेन युक्तं सत् हस्तं पूरयति यथा तथा कर्त्तव्यम् । तथा 'रनिप्रमाणमात्रं ' यथा दण्डो हस्तप्रमाणो भवति तथा कर्त्तव्यम् । 'कुज्जा पोरपरिग्गहं' ति पोरम् - अङ्गुष्ठपर्व तस्मिन्नङ्गुष्ठपर्वणि लग्नया प्रदेशिन्या यद्भवति छिद्रं तद्यथा पूर्यते तेन दण्डकेन बाह्यनिषद्याद्वयरहितेन तथा कर्त्तव्यं, एवंविधं 'पोरपरिगहं' अङ्गुष्ठपर्वप्रदेशिनी कुण्डलिकापूरणं कर्त्तव्यमिति । इदानीं समुदायरूपस्यैव प्रमाणं प्रतिपादयन्नाह - बत्ती संगुली चवीसं अंगुलाई दंडो से । अहंगुला दसाओ एगयरं हीणमहियं वा ॥ ७०८ ॥ द्वात्रिंशदङ्गुलानि सर्वमेव दीर्घत्वेन प्रमाणतो भवति, तत्र च 'अस्य' रजोहरणस्य चतुर्विंशत्यङ्गुलानि दण्डकः, अष्टा Jain Education monal For Personal & Private Use Only unelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456