Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 435
________________ संथारुत्तरपट्टो अड्डाइजा य आयया हत्था । दोहंपि य वित्थारो हत्थो चउरंगुलं चेव ॥७२३ ॥ संसारकस्तथोत्तरपदकश्च, एती द्वावप्येकैकोऽद्धेतृतीयहस्तो दैर्येण प्रमाणतो भवति, तथा द्वयोरप्यनयोर्विस्तारो हस्तश्चत्वारि चाङ्गलानि भवतीति । आह-किं पुनरेभिः प्रयोजनं संस्तारकादिभिः पट्टकैः १, उच्यतेपाणादिरेणुसारक्खणट्ठया होंति पट्टगा चउरो । छप्पइयरक्खणट्ठा तत्थुवरि खोमियं कुज्जा ॥ ७२४ ॥ प्राणिरेणुसंरक्षणार्थ पट्टका गृह्यन्ते, प्राणिनः-पृथिव्यादयः रेणुश्च-स्वपतः शरीरे लगति अतस्तद्रक्षणार्थ पट्टकग्रहणं, ते चत्वारो भवन्ति, द्वौ संस्तारकोत्तरपट्टकावुक्तावेव, तृतीयो रजोहरणबाह्यनिषद्यापट्टकः पूर्वोक्त एव, चतुर्थः क्षौमिक एवाभ्यन्तरनिषद्यापट्टको वक्ष्यमाणकः, एते चत्वारोऽपि प्राणिसंरक्षणार्थ गृह्यन्ते, तत्र षट्पदीरक्षणार्थ तस्य कम्बलीसंस्तारकस्योपरि खोमियं-संस्तारके पट्टकं कुर्याद् येन शरीरकम्बलीमयसंस्तारकसंघर्षेण न षट्पद्यो विराध्यन्त इति । इदानीमभ्य-13 न्तरक्षौमनिषद्याप्रमाणप्रतिपादनायाहरयहरणपट्टमेत्ता अदसागा किंचि वा समतिरेगा। एकगुणा उ निसज्जा हत्थपमाणा सपच्छागा ॥७२५॥ सरजोहरणपट्टकोऽभिधीयते यत्र दशिका लग्नाः तत्प्रमाणा 'अदशा' दशिकारहिता क्षौमा रजोहरणाभ्यन्तरनिषद्या भवति, किंचि वा समतिरेग'त्ति किश्चिन्मात्रेण वा समधिका तस्य रजोहरणपट्टकस्य भवतीति, 'एकगुण'त्ति एकैव सा18 निषद्या भवतीति, हस्तप्रमाणा च पृथुत्वेन भवति, 'सपच्छागत्ति सह बाह्यया हस्तप्रमाणया भवतीति, एतदुक्तं भवतिबाह्याऽपि निषद्या हस्तमात्रैव । मो०३० Jain Education For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456