Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 433
________________ विधिरित्यत आह- 'ध्रुवलम्भे' ध्रुवे- अवश्यम्भाविनि प्रायोग्यलाभे सत्ययं विधिः, 'सेस उभयंपित्ति शेषा - येऽन्ये सङ्घाट - कास्ते आत्मार्थमुभयमपि भक्तं पानकं च गृह्णन्ति, एकः पानकमेकस्मिन् प्रतिग्रहके गृह्णाति द्वितीयस्तु भक्तं गृह्णाति, एवं सर्वेऽपि सङ्घाटका भिक्षामटन्तीति, ततश्चैवं मात्रकग्रहणं न संजातमिति । अथ ध्रुवलम्भः प्रायोग्यस्य न तस्मिन् क्षेत्रे ततः को विधिरित्यत आह असई लाभे पुणमतए य सवे गुरूण गेण्हंति । एसेव कमो नियमा गिलाणसे हाइएसुंपि ॥ ७१८ ॥ असति लम्भे पुनः प्रायोग्यस्य सर्व एव सङ्घाटका मात्रकेषु गुरोः प्रायोग्यं गृह्णन्ति, यतो न ज्ञायते कः किंचिल्लप्स्यते आहोश्चिन्नेत्यतो गृह्णन्ति, एष एव क्रमो 'नियमात्' नियमत एव ग्लानशिष्यकादिष्वपीति । अथवा — दुल्लभ व सिया घयाइ तं मत्तएसु गेण्हंति । लद्धेवि उ पज्जन्ते असंथरे से सगट्ठाए ॥ ७१९ ॥ दुर्लभं वा द्रव्यं स्याद् घृतादि तन्मात्रकेषु गृह्णन्ति । तथा लब्धेऽपि भक्ते पर्याप्ते आत्मार्थं तथाऽपि यदि न संस्तरति - न सरति ग्लानवृद्धादीनां ततोऽसंस्तरणे सति ग्लानवृद्धादिशेषार्थं तावत्पर्यटन्ति यावत्पर्याप्तं भक्तं ग्लानादीनां भवतीति । अथवाऽनेन प्रकारेण मात्रकग्रहणं संभवति Jain Education International संसत्तभत्तपाणेसु वादि देसेसु मत्तए गहणं । पुत्रं तु भत्तपाणं सोहेउ छुर्हति इयरेसु ॥ ७२० ॥ यत्र प्रदेशेषु स्वभावेनैव संसक्तभक्तपानं सम्भाव्यते, तेषु संसक्तभक्तपानेषु देशेषु सत्सु प्रथमं मात्रके ग्रहणं क्रियते, For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456