Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 445
________________ PASASALASSISK इति । किञ्च रक्तः' आहाराद्यर्थ सिंहादिः, 'विष्टः' सर्पादिः, 'मूढः' वैदिकादिः, स एवंविधो रक्तो वा द्विष्टो वा मूढो वा यं 'प्रयोग' कायादिक प्रयुते तत्र हिंसाऽपि जायते, अपिशब्दादनृतादि चोपजायते, अथवा हिंसाऽप्येवं रक्तादिभावेनोपजायते न तु हिंसामात्रेणेति वक्ष्यति, तस्मात्स हिंसको भवति यो रक्तादिभावयुक्त इति, न च हिंसयैव हिंसको भवति, तथा चाह-न च हिंसामात्रेण सावद्येनापि हिंसको भवति, कुतः ?, शुद्धस्य पुरुषस्य कर्मसंप्राप्तिरफला भणिता जिनवरैरिति । किञ्चजा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला अज्झत्थविसोहिजुत्तस्स ॥७५९॥ परमरहस्समिसीणं समत्तगणिपिंडगझरितसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥७६०॥ |निच्छयमवलंबंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं बाहिरकरणालसा केइ ॥ ७६१॥ ___ या विराधना यतमानस्य भवेत् , किंविशिष्टस्य सतः १-सूत्रविधिना समग्रस्य-युक्तस्य गीतार्थस्येत्यर्थः, तस्यैवंविधस्य या भवति विराधना सा निर्जराफला भवति, एतदुक्तं भवति-एकस्मिन् समये बद्धं कर्मान्यस्मिन् समये क्षपयतीति, किंविशिष्टस्य ?-'अध्यात्मविशोधियुक्तस्य' विशुद्धभावस्येत्यर्थः। किञ्च,-परम-प्रधानमिदं रहस्य-तत्त्वं, केषाम् ?-ऋषीणां' सुविहितानां, किंविशिष्टानां ?-समग्रं च तद् गणिपिटगं च समग्रगणिपिटकं तस्य क्षरितः-पतितः सारः-प्राधान्यं यैस्ते समग्रगणिपिटकक्षरितसारास्तेषामिदं रहस्य, यदुत 'पारिणामिकं प्रमाणं' परिणामे भवं पारिणामिकं, शुद्धोऽशुद्धश्च चित्तपरिणाम इत्यर्थः, किंविशिष्टानां सतां पारिणामिकं प्रमाणं-निश्चयनयमवलम्बमानानां, यतः शब्दादिनिश्चयनयानामिद-15 AAACOLOR-ANCREARCALCRECE Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456