Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीओघ
*SEGAR
नियुक्तिः द्रोणीया वृत्तिः
यतनयानिजरा निश्चयव्यवहारौ नि. ७५९७६१ भाय तनेतरेनि. ७६२.७६३
॥२२२॥
मेव दर्शनं, यदुत-पारिणामिकमिच्छन्तीति । आह-यद्ययं निश्चयस्ततोऽयमेवावलम्ब्यतां किमन्येनेति !, उच्यते- निश्चयमवलम्बमानाः पुरुषा 'निश्चयतः' परमार्थतो निश्चयमजानानाः सन्तो नाशयन्ति चरणकरणं, कथं ?-'बाह्यकर- णालसाः' बाह्य-वैयावृत्त्यादि करणं तत्र अलसाः-प्रयत्नरहिताः सन्तश्चरणकरणं नाशयन्ति, केचिदिदं चाङ्गीकुर्वन्ति यदुत परिशुद्धपरिणाम एव प्रधानो नतु बाह्यक्रिया, एतच्च नाङ्गीकर्त्तव्यं, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न भवतीति, ततश्च निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकर्तव्यमिति । उक्तमुपधिद्वारम्, इदानीमायतनद्वारव्याचिख्यासया संबन्धं प्रतिपादयन्नाहएवमिणं उवगरणं धारेमाणो विहीसुपरिसुद्धं । हवति गुणाणायतणं अविहि असुद्धे अणाययणं ॥७६२॥
'एवम्' उक्तन्यायेन उपकरणं धारयन् विधिना 'परिशुद्धं' सर्वदोषवर्जितं, किं भवति ?-गुणानामायतनं-स्थानं भवति । अथ पूर्वोक्तविपरीतं क्रियते यदुताविधिना धारयति अविशुद्धं च तदुपकरणं, ततोऽविधिना शुद्धं ध्रियमाणं तदे| वोपकरणम् 'अनायतनम्' अस्थानं भवतीति । इदानीमनायतनस्यैव पर्यायशब्दान् प्रतिपादयन्नाह
सावजमणायतणं असोहिठाणं कुसीलसंसग्गी। एगट्टा होंति पदा एते विवरीय आययणा ॥ ७६३ ॥ .
सावद्यमनायतनमशोधिस्थानं कुसीलसंसग्गी, एतान्येकार्थिकानि पदानि भवन्ति, एतान्येव च विपरीतानि आयतने |भवन्ति, कथम् ?-असावद्यमायतनं शोधिस्थानं सुसीलसंसग्गीति । अत्र चानायतनं वर्जयित्वाऽऽयतनं गवेषणीयम् ?, एतदेवाहु
**USASIS PASSOS
R APIA
॥२२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456