Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 431
________________ तथा कर्त्तव्यं, त्र्यस्रं कोणद्वये गृहीत्वा यथा कृकाटिकायां ग्रन्थिर्दातुं शक्यते तथा कर्त्तव्यमिति, एतद्वितीय प्रमाण, गणणाप्रमाणेन पुनस्तदेकैकमेव मुखानन्तकं भवतीति । इदानीं तत्प्रयोजनप्रतिपादनायाह संपातिमरयरेणूपमज्जणट्ठा वयंति मुहपत्तिं । नासं मुहं च बंधइ तीए वसहिं पमजंतो ॥ ७१२ ॥ संपातिमसत्त्वरक्षणार्थं जल्पद्भिर्मुखे दीयते, तथा रजः - सचित्तपृथिवीकायस्तत्प्रमार्जनार्थ मुखवस्त्रिका गृह्यते, तथा रेणुप्रमार्जनार्थ मुखवस्त्रिकाग्रहणं प्रतिपादयन्ति पूर्वर्षयः । तथा नासिकामुखं बध्नाति तया मुखवस्त्रिकया वसतिं प्रमार्जयन् येन न मुखादौ रजः प्रविशतीति । इदानीं मात्रकप्रमाणप्रतिपादनायाह जो माह पत्थ सविसेसतरं तु मत्तयपमाणं । दोस्रुवि दवग्गहणं वासावासासु अहिगारो ॥ ७१३ ॥ यो मागधिकः प्रस्थस्तत्सविशेषतरं मात्रकं भवति, स च मागधिकप्रस्थः दो असईओ पसई दो पसतिओ सेतिया चउसेइयाहिं मागहो पत्थे सो जारिसो पमाणेण तारिसं सविसेसतरं मत्तयं हवति । तेन किं प्रयोजनमित्यत आह- 'दोस्रुवि' द्वयोरपि वर्षावर्षयोः - वर्षाकालऋतुबद्धकालयोर्यदाचार्यादिप्रायोग्यद्रव्यग्रहणं क्रियते अयमधिकारस्तस्य मात्रकस्येति, इदं प्रयोजनमित्यर्थः । अथवेदमन्यत्प्रमाणमुच्यते सूवोदणस्स भरिडं दुगाउअद्वाणमागओ साहू । भुंजइ एगट्ठाणे एयं किर मन्तयपमाणं ॥ ७१४ ॥ सूपस्य च ओदनस्य च भृतं द्विगव्यूताध्वानादागतः साधुर्भुङ्क्ते यदेकस्मिन् स्थाने तदेतत् किल मात्रकस्य द्वितीयं प्रमाणमुक्तं । आह- कस्मादुक्तप्रमाणाल्लघुतरं न क्रियते ?, उच्यते, लघुतरे दोषा भवन्ति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456