Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 421
________________ एगं पायं जिणकप्पियाण थेराण मत्तओ बिइओ। एयं गणणपमाणं पमाणमाणं अओ वुच्छं ॥६७९॥ एकमेव पात्रकं जिनकल्पिकानां भवति, स्थविरकल्पिकानां तु मात्रको द्वितीयो भवति, इदं तावदेकद्व्यादिकं गणणाप्रमाणम् , इत ऊर्दू प्रमाणप्रमाणं वक्ष्ये, तत्र पात्रकस्य प्रमाणप्रमाणप्रतिपादनायाह तिणि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । इत्तो हीण जहन्नं अइरेगतरं तु उक्कोसं ॥ ६८०॥ इणमण्णं तु पमाणं नियगाहाराउ होइ निप्फन्नं । कालपमाणपसिद्धं उदरपमाणेण य वयंति ॥ ६८१॥ उक्कोस तिसामासे दुगाउअद्धाणमागओ साहू । चउरंगुलूणभरियं जं पजत्तं तु साहुस्स ॥ ६८२ ॥ एयं चेव पमाणं सविसेसयरं अणुग्गहपवत्तं । कंतारे दुन्भिक्खे रोहगमाईसु भइयवं ॥ ६८३ ॥ ___ समचउरंसं वट्ट दोरएण मविज्जइ तिरिच्छयं उड्डमहो य, सो य दोरओ तिण्णि विहत्थीओ चत्तारि अंगुलाई जति होइ ततो भाणस्स एयं मज्झिमं पमाणं, 'इतः' अस्मात्प्रमाणाद्यद्धीनं तजघन्यं प्रमाणं भवति, अथातिरिक्तप्रमाणं मध्यमप्रमाणाद्भवति ततस्तदुत्कृष्टप्रमाणमित्यर्थः, तथेदमपरं प्रमाणान्तरं प्रकारान्तरेण वा पात्रकस्य भवति-इदमन्यत्प्रमाणं निजेनाहारेण निष्पन्नं वेदितव्यं, एतदुक्तं भवति-काञ्जिकादिद्रवोपेतस्य भक्तस्य चतुर्भिरङ्गलैरूनं पात्रकं तत्साधो क्षयतो यत्सरिनिष्ठितं याति तत्तादृग्विधं मध्यमप्रमाणं पात्रक, तच्चैवंविधं कालप्रमाणेन ग्रीष्मकाले प्रमाणसिद्धं पात्रकं भणन्ति, टू उदरप्रमाणेन सिद्धं च 'वदन्ति' प्रतिपादयन्ति । कालप्रमाणसिद्धं पात्रकमुदरप्रमाणसिद्धं च पात्रक प्रतिपादयन्नाह-उत्कृष्टा तृड् मासयोः-ज्येष्ठापाढयोर्यस्मिन् काले स उत्कृष्टतृण्मासः कालस्तस्मिन्नुत्कृष्टतृण्मासकाले द्विगव्यूताध्वानमात्रादागतो Join Educati o nal For Personal & Private Use Only Dinelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456