Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
Jain Education
पायस्स लक्खणमलक्खणं च भुजो इमं वियाणित्ता । लक्खणजुत्तस्स गुणा दोसा य अलक्खणस्स इमे ॥ ६८५ ॥ वहं समचउरंसं होइ थिरं धावरं च वण्णं च । हुंडं वायाइडं भिन्नं च अधारणिजाई ॥ ६८६ ॥ संठियंमि भवे लाभो, पतिट्ठा सुपतिट्ठिते । निषणे कित्तिमारोगं, वन्नट्टे नाणसंपया ॥ ६८७ ॥ हुंडे चरितभेदो सबलंमि य चित्तविन्भमं जाणे । दुप्पते खीलसठाणे गणे च चरणे च नो ठाणं ॥ ६८८ ॥ पउमुप्पले अकुसलं, सङ्घणे वणमादिसे । अंतो वहिं च दमि, मरणं तत्थ निद्दिसे ॥ ६८९ ॥ अकरंडगम्मि भाणे हत्थो उटुं जहा न घट्टेइ । एयं जहन्नयमुहं वत्युं पप्पा विसालं तु ॥ ६९० ॥
पात्रकस्य लक्षणं' 'ज्ञात्वा' विज्ञाय अपलक्षणं च बुद्धा 'भूय:' पुनर्लक्षणोपेतं ग्राह्यं यतो लक्षणोपेतस्यामी गुणाः, अपलक्षणस्य चैते दोषाः - वक्ष्यमाणा भवन्ति तस्माल्लक्षणोपेतमेव ग्राह्यं नालक्षणोपेतं ॥ तच्चेदम्- 'वृत्त' वर्तुलं तत्र वृत्तमपि कदाचित्समचतुरस्रं न भवत्यत आह- समचतुरस्रं सर्वतस्तथा स्थिरं च यद्भवति - सुप्रतिष्ठानं तद्गृह्यते नान्यत्, तथा स्थावरं च यद्भवति न परकीयोपस्करवद् याचितं कतिपयदिनस्थाधि, तथा 'वर्ण्य' स्निग्धवर्णोपेतं यद्भवति तद् ग्राह्यं, नेतरत् । उक्तं लक्षणोपेतम् इदानीमपलक्षणोपेतमुच्यते - 'हुण्डं' क्वचिन्निम्नं क्वचिदुन्नतं यत्तदधारणीयं, 'वायाइर्द्ध' ति अकालेनैव शुष्कं सङ्कुचितं वलीभृतं तदधरणीयं, तथा 'भिन्न' राजियुक्तं सछिद्रं वा, एतानि न धार्यन्ते - परित्यज्यन्त | इत्यर्थः । इदानीं लक्षणयुक्तस्य फलदर्शनायाह - संस्थिते पात्रके - वृत्तचतुरस्रे प्रियमाणे लाभो भवति, प्रतिष्ठा गच्छे भवति सुप्रतिष्ठिते स्थिरे पात्रके, 'निर्वणे' नखक्षतादिरहिते कीर्तिरारोग्यं च भवति, वर्णाढ्ये ज्ञानसंपद्भवति । इदानीमलक्षणयु
For Personal & Private Use Only
elibrary.org

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456