SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Jain Education पायस्स लक्खणमलक्खणं च भुजो इमं वियाणित्ता । लक्खणजुत्तस्स गुणा दोसा य अलक्खणस्स इमे ॥ ६८५ ॥ वहं समचउरंसं होइ थिरं धावरं च वण्णं च । हुंडं वायाइडं भिन्नं च अधारणिजाई ॥ ६८६ ॥ संठियंमि भवे लाभो, पतिट्ठा सुपतिट्ठिते । निषणे कित्तिमारोगं, वन्नट्टे नाणसंपया ॥ ६८७ ॥ हुंडे चरितभेदो सबलंमि य चित्तविन्भमं जाणे । दुप्पते खीलसठाणे गणे च चरणे च नो ठाणं ॥ ६८८ ॥ पउमुप्पले अकुसलं, सङ्घणे वणमादिसे । अंतो वहिं च दमि, मरणं तत्थ निद्दिसे ॥ ६८९ ॥ अकरंडगम्मि भाणे हत्थो उटुं जहा न घट्टेइ । एयं जहन्नयमुहं वत्युं पप्पा विसालं तु ॥ ६९० ॥ पात्रकस्य लक्षणं' 'ज्ञात्वा' विज्ञाय अपलक्षणं च बुद्धा 'भूय:' पुनर्लक्षणोपेतं ग्राह्यं यतो लक्षणोपेतस्यामी गुणाः, अपलक्षणस्य चैते दोषाः - वक्ष्यमाणा भवन्ति तस्माल्लक्षणोपेतमेव ग्राह्यं नालक्षणोपेतं ॥ तच्चेदम्- 'वृत्त' वर्तुलं तत्र वृत्तमपि कदाचित्समचतुरस्रं न भवत्यत आह- समचतुरस्रं सर्वतस्तथा स्थिरं च यद्भवति - सुप्रतिष्ठानं तद्गृह्यते नान्यत्, तथा स्थावरं च यद्भवति न परकीयोपस्करवद् याचितं कतिपयदिनस्थाधि, तथा 'वर्ण्य' स्निग्धवर्णोपेतं यद्भवति तद् ग्राह्यं, नेतरत् । उक्तं लक्षणोपेतम् इदानीमपलक्षणोपेतमुच्यते - 'हुण्डं' क्वचिन्निम्नं क्वचिदुन्नतं यत्तदधारणीयं, 'वायाइर्द्ध' ति अकालेनैव शुष्कं सङ्कुचितं वलीभृतं तदधरणीयं, तथा 'भिन्न' राजियुक्तं सछिद्रं वा, एतानि न धार्यन्ते - परित्यज्यन्त | इत्यर्थः । इदानीं लक्षणयुक्तस्य फलदर्शनायाह - संस्थिते पात्रके - वृत्तचतुरस्रे प्रियमाणे लाभो भवति, प्रतिष्ठा गच्छे भवति सुप्रतिष्ठिते स्थिरे पात्रके, 'निर्वणे' नखक्षतादिरहिते कीर्तिरारोग्यं च भवति, वर्णाढ्ये ज्ञानसंपद्भवति । इदानीमलक्षणयु For Personal & Private Use Only elibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy