Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥२०८॥
ल्पिकसत्काः पात्रकाद्या मुखवस्त्रिकापर्यन्ता उपध्यवयवा भवन्ति स्थविराणां स्थविरकल्पे अतिरिक्तस्तु मात्रकञ्चोलपट्टकश्च भवति, एष चतुर्दशविध उपधिः स्थविरकल्पे भवति । इदानीं सङ्ग्रहगाथया सर्वमेतदुपसग्रहन्नाह -
जिणा बारसरुवाई, थेरा चउदसरूविणो । अज्जाणं पन्नवीसं तु, अओ उहुं उबग्गहो ॥ ६७९ ॥ जिनानां - जिनकल्पिकानां 'द्वादश रूपाणि' उक्तलक्षणानि भवन्ति, स्थविराणां 'चतुर्दश रूपाणि' उक्तलक्षणानि भवन्ति, 'आर्याणां' भिक्षुणीनां पञ्चविंशत्यवयवः ओघतः, स च वक्ष्यमाणलक्षणः, 'अत ऊर्द्ध' उक्तप्रमाणात् सर्वेषामेव य उपधिर्भवति स उपग्रहो वेदितव्यः । इदानीं स जिनकल्पिकोपधिः स्थविरकल्पिकोपधिश्च सर्व एव त्रिविधो भवति, तस्योपधेर्मध्ये कानिचिदुत्तमान्यङ्गानि कानिचिज्जघन्यानि कानिचिन्मध्यमानि, तत्र जिनकल्पिकानां तावत्प्रतिपादयन्नाह - तिनेष य पच्छागा पडिग्गहो चेव होइ उक्कोसो। गुच्छगपत्तगठवणं मुहणंतगकेसरि जहन्नो ।। ६७२ ॥ तत्र ये प्रच्छादकाः कल्पा इत्यर्थः पतग्रहश्चेत्येष जिनकल्पिकावधेर्मध्ये उत्कृष्ट उपधिः प्रधानश्चतुर्विधोऽपि, अत्रामूनि प्रधानान्यङ्गानीत्यर्थः, गोच्छकः पात्रकस्थापनं मुखानन्तकं- मुखवस्त्रिका पात्रकेसरिका - पात्रमुखवस्त्रिका चेति, एष जिनकल्पावधेर्मध्ये जघन्यः - अप्रधानश्चतुर्विध उपधिरिति, पात्रकबन्धः पटलानि रजस्त्राणं रजोहरणमित्येष चतुर्विधोऽप्युपधिजिनकल्पिकावधेर्मध्ये मध्य उपधिः -न प्रधानो नाप्यप्रधान इति । उक्तो जिनकल्पिकानामुत्कृष्टजघन्यमध्यम उपधिरिति । इदानीं स्थविरकल्पिकानां प्रतिपादयति, तत्रापि प्रथमं मध्यमोपधिप्रतिपादनायाह
प्रडलाई रयाणं पत्ता बंधो य बोलपट्टो य । रयहरण मन्तओऽवि य थेराणं छबिहो मज्झो ॥ ६७३ ॥
Jain Education International
For Personal & Private Use Only
उपधिनिरू पर्ण नि. ६६७-६७३
| ॥२०८॥
www.jainelibrary.org

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456