________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥२०८॥
ल्पिकसत्काः पात्रकाद्या मुखवस्त्रिकापर्यन्ता उपध्यवयवा भवन्ति स्थविराणां स्थविरकल्पे अतिरिक्तस्तु मात्रकञ्चोलपट्टकश्च भवति, एष चतुर्दशविध उपधिः स्थविरकल्पे भवति । इदानीं सङ्ग्रहगाथया सर्वमेतदुपसग्रहन्नाह -
जिणा बारसरुवाई, थेरा चउदसरूविणो । अज्जाणं पन्नवीसं तु, अओ उहुं उबग्गहो ॥ ६७९ ॥ जिनानां - जिनकल्पिकानां 'द्वादश रूपाणि' उक्तलक्षणानि भवन्ति, स्थविराणां 'चतुर्दश रूपाणि' उक्तलक्षणानि भवन्ति, 'आर्याणां' भिक्षुणीनां पञ्चविंशत्यवयवः ओघतः, स च वक्ष्यमाणलक्षणः, 'अत ऊर्द्ध' उक्तप्रमाणात् सर्वेषामेव य उपधिर्भवति स उपग्रहो वेदितव्यः । इदानीं स जिनकल्पिकोपधिः स्थविरकल्पिकोपधिश्च सर्व एव त्रिविधो भवति, तस्योपधेर्मध्ये कानिचिदुत्तमान्यङ्गानि कानिचिज्जघन्यानि कानिचिन्मध्यमानि, तत्र जिनकल्पिकानां तावत्प्रतिपादयन्नाह - तिनेष य पच्छागा पडिग्गहो चेव होइ उक्कोसो। गुच्छगपत्तगठवणं मुहणंतगकेसरि जहन्नो ।। ६७२ ॥ तत्र ये प्रच्छादकाः कल्पा इत्यर्थः पतग्रहश्चेत्येष जिनकल्पिकावधेर्मध्ये उत्कृष्ट उपधिः प्रधानश्चतुर्विधोऽपि, अत्रामूनि प्रधानान्यङ्गानीत्यर्थः, गोच्छकः पात्रकस्थापनं मुखानन्तकं- मुखवस्त्रिका पात्रकेसरिका - पात्रमुखवस्त्रिका चेति, एष जिनकल्पावधेर्मध्ये जघन्यः - अप्रधानश्चतुर्विध उपधिरिति, पात्रकबन्धः पटलानि रजस्त्राणं रजोहरणमित्येष चतुर्विधोऽप्युपधिजिनकल्पिकावधेर्मध्ये मध्य उपधिः -न प्रधानो नाप्यप्रधान इति । उक्तो जिनकल्पिकानामुत्कृष्टजघन्यमध्यम उपधिरिति । इदानीं स्थविरकल्पिकानां प्रतिपादयति, तत्रापि प्रथमं मध्यमोपधिप्रतिपादनायाह
प्रडलाई रयाणं पत्ता बंधो य बोलपट्टो य । रयहरण मन्तओऽवि य थेराणं छबिहो मज्झो ॥ ६७३ ॥
Jain Education International
For Personal & Private Use Only
उपधिनिरू पर्ण नि. ६६७-६७३
| ॥२०८॥
www.jainelibrary.org