Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
निसीहिया नमोक्कारे काउस्सग्गे य पंचमंगलए । पुवाउत्ता सबे पट्ठवणचक्कनाणत्तं ॥ ६४९ ॥
प्रविशश्च गुरुसमीपे कालसन्दिशनार्थं यदि निषेधिकां न करोति ततः कालो व्याहन्यते, नमस्कारं करोति नमो खमासमणाणं, अथैवं न भणति ततः कालव्याघातो भवति, प्राप्तश्चेर्यापथिकाप्रत्ययं 'कायोत्सर्गम्' अष्टोच्छ्रासं करोति, नमस्कारं च चिन्तयति, ईरियावहियं च अवस्सं पडिक्कमतिजइ दूराओ जदि आसन्नओ वा आगतो, पुनरसौ नमस्कारेणोत्सारयतिपञ्चमङ्गलकेनेत्यर्थः, पुनश्च संदिशापयित्वा कालग्रहणार्थे निर्गच्छति, निर्गच्छंश्च जदि आवस्सियं न करेइ खलति पडति वा जीवो वा अंतरे हवेज्जा एवमादीहिं उवहम्मइ । इदानीं कालग्रहणवेलायां किं कर्त्तव्यं साधुभिः १ इत्याह- 'पुबाउत्ता' पूर्वमेव दण्डधारिघोषणानन्तरमुपयुक्ताः सर्वे गर्जितादौ भवन्ति, उपयुक्ताश्च सन्तः कालग्रहणोत्तरकालं सर्वे स्वाध्यायप्रस्थापनं कुर्वन्ति । 'चक्कनाणत्तं' ति कालचतुष्कस्य यथा नानात्वं भवति तथा वक्ष्यामः कालचतुष्कं एकः प्रादोषिकः अपरोऽर्द्धरात्रिकः अपरो वैरात्रिकः अपरः प्राभातिकः, एतच्च भाष्यकारो वक्ष्यति । इदानीं कालं गृह्णतः को विधिरित्यत आह
थोवावसेसियाए सम्झाए ठाइ उत्तराहुत्तो । चउवीसगदुम पुष्कियपुचग एक्केकय दिसाए ॥ ६५० ॥ स्तोकावशेषायां सन्ध्यायां पुणो कालमंडलयं पमज्जित्ता निषीधिकां कृत्वा कालमण्डलके प्रविशति, ततश्चोत्तराभिमुखः कायोत्सर्ग करोति, तस्मिंश्च पञ्चनमस्कारमष्टोच्छ्रासं चिन्तयति, पुनश्च नमस्कारेणोत्सार्य मूक एव चतुर्विंशतिस्तवं लोगस्सुजोयकरं पठति मुखमध्ये, तथा 'दुमपुष्फियपुवगं'ति द्रुमपुष्पिका - धम्मो मंगलं पुवगंति - श्रामण्यपूर्वकं 'कहं नु कुज्जा सामन्न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456