SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ निसीहिया नमोक्कारे काउस्सग्गे य पंचमंगलए । पुवाउत्ता सबे पट्ठवणचक्कनाणत्तं ॥ ६४९ ॥ प्रविशश्च गुरुसमीपे कालसन्दिशनार्थं यदि निषेधिकां न करोति ततः कालो व्याहन्यते, नमस्कारं करोति नमो खमासमणाणं, अथैवं न भणति ततः कालव्याघातो भवति, प्राप्तश्चेर्यापथिकाप्रत्ययं 'कायोत्सर्गम्' अष्टोच्छ्रासं करोति, नमस्कारं च चिन्तयति, ईरियावहियं च अवस्सं पडिक्कमतिजइ दूराओ जदि आसन्नओ वा आगतो, पुनरसौ नमस्कारेणोत्सारयतिपञ्चमङ्गलकेनेत्यर्थः, पुनश्च संदिशापयित्वा कालग्रहणार्थे निर्गच्छति, निर्गच्छंश्च जदि आवस्सियं न करेइ खलति पडति वा जीवो वा अंतरे हवेज्जा एवमादीहिं उवहम्मइ । इदानीं कालग्रहणवेलायां किं कर्त्तव्यं साधुभिः १ इत्याह- 'पुबाउत्ता' पूर्वमेव दण्डधारिघोषणानन्तरमुपयुक्ताः सर्वे गर्जितादौ भवन्ति, उपयुक्ताश्च सन्तः कालग्रहणोत्तरकालं सर्वे स्वाध्यायप्रस्थापनं कुर्वन्ति । 'चक्कनाणत्तं' ति कालचतुष्कस्य यथा नानात्वं भवति तथा वक्ष्यामः कालचतुष्कं एकः प्रादोषिकः अपरोऽर्द्धरात्रिकः अपरो वैरात्रिकः अपरः प्राभातिकः, एतच्च भाष्यकारो वक्ष्यति । इदानीं कालं गृह्णतः को विधिरित्यत आह थोवावसेसियाए सम्झाए ठाइ उत्तराहुत्तो । चउवीसगदुम पुष्कियपुचग एक्केकय दिसाए ॥ ६५० ॥ स्तोकावशेषायां सन्ध्यायां पुणो कालमंडलयं पमज्जित्ता निषीधिकां कृत्वा कालमण्डलके प्रविशति, ततश्चोत्तराभिमुखः कायोत्सर्ग करोति, तस्मिंश्च पञ्चनमस्कारमष्टोच्छ्रासं चिन्तयति, पुनश्च नमस्कारेणोत्सार्य मूक एव चतुर्विंशतिस्तवं लोगस्सुजोयकरं पठति मुखमध्ये, तथा 'दुमपुष्फियपुवगं'ति द्रुमपुष्पिका - धम्मो मंगलं पुवगंति - श्रामण्यपूर्वकं 'कहं नु कुज्जा सामन्न Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy