________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
कालग्रहणविधिः नि. ६४५-६४८
॥२०२॥
पियधम्मो दढधम्मो संविग्गो चेवऽवजभीरू य । खेयन्नो य अभीरू कालं पडिलेहए साह ॥६४७॥ प्रियः-इष्टो धर्मोऽस्येति प्रियधर्मा, तथा दृढः-स्थिरो निश्चलो धर्मो यस्य स तथा, 'संविग्गो' मोक्षसुखाभिलाषी, |'अवद्यभीरुः' पापभीरुः, 'खेदज्ञः' गीतार्थः तथा 'अभीरुः' सत्त्वसंपन्नः एवंविधः 'कालं' कालग्रहणवेलां प्रत्युपेक्षते साधुः, एवंविधः कालवेलायाः प्रतिजागरणं करोति । इदानीं दण्डधारिणि घोषयित्वा निर्गते पुनश्च स द्वितीयः कालग्राही कालसंदिशनार्थ गुरोः समीपं प्रविशति, कथम् ?__आउत्तपुचभणिए अणपुच्छा खलियपडिय वाघाते । घोसंतमूढसंकियइंदियविसएवि अमणुन्ने ॥ ६४८॥ __ स च प्रविशन् 'आयुक्तः' उपयुक्तः सन् प्रविशति, एतस्मिंश्च प्रवेशने पूर्वोक्तमेव द्रष्टव्यं यतो निर्गच्छतो यो विधिः प्रविशतोऽपि स एव विधिरित्यत आह-पूर्वभणितमेतत् , अथ त्वनापृच्छयैव गुरुं कालं गृह्णाति ततश्चानापृच्छय गृहीतस्य कालस्य, एतदुक्तं भवति-गृहीतोऽप्यसौ न भवति, तथा स्खलितस्य सतः कालव्याघातः, पतितस्य व्याघातः कालस्य, |एवं संजाते सति कालो न गृह्यते, तथा प्रविष्टस्य गुरुवन्दनकाले केनचित्सह जल्पतः कालो व्याहन्यते, तथा मूढो यदि भवति आवर्तान विधिविपर्यासेन ददाति तथाऽपि व्याहन्यते कालः, तथा शङ्कया न जानाति किमावर्ता दत्ता न वेत्यस्यामवस्थायां व्याहन्यते कालः, इन्द्रियविषयाश्च यद्यमनोज्ञा भवन्ति तथाऽपि कालो व्याहन्यते, छिन्धि भिन्धीत्येवंविधान् शब्दान् शृणोति, गन्धोऽनिष्टो यदि भवति, यत्र गन्धस्तत्र रसोऽपि, विकरालं रूपं पश्यति, स्पर्शेन लेष्ट्वभिघातोऽकस्माद्भवति, एवंविधे सत्यामपि वेलायां न गृह्णाति कालं । प्रविष्टश्चासौ किं करोतीत्यत आह
SALARAMACHAR
॥२०२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org