Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 376
________________ ३१२ न्यायविनिश्चय विपरणे [२३ अथवा, वंशववंशोऽक्षरसमाम्नायः समस्तस्यापि वाङमयस्य तत्प्रभवत्वात्, तस्यादिस्वरः अवर्णस्तत्प्रथमत्वेन लोके तस्य पाठात्, तस्य धारा मात्राद्यवच्छिन्नकालानुवृत्तिः तस्यां संकुलाप्रसिपत्तित इति व्याख्येयम् । अत्रापीदमैदम्पर्यम्-आशुप्रतिपत्त्या शब्देषु योगपद्यभ्रमकल्पनायाम अवर्णस्याप्यतिसूक्ष्मसमयावच्छिन्नाद्यश्रतावेव उत्तरोत्तरसमय५ समनुयायिनीनामपि श्रुतीनामाशुभावेन. अनुप्रविष्टतया प्रतीत्युपस्थानात् संकुलप्रतिपत्त्या भवितव्यम् । एवम् इवर्णादावपि वक्तव्यम्, आदिस्वरग्रह्णस्योपलक्षणत्वात् । एवं चैकमात्रादिभेदेन अचामर्धमात्रतया हलामपि प्रतिपत्तेरभावात् प्रसिद्धोऽपि व्यक्सवाग्व्यवहारः प्रध्यस्तो भवेत्, तस्य अच्-हल्विभागप्रतीतिपुरस्सरतया तदभावेऽनुपपत्तेः । आशुग्रहेण शब्वेषु योगपद्यभ्रमं ब्रुवन् । पक्तवारव्यवहाराय देहि भद्र जलाञ्जलिम् ।।१७८३।। तदभावे च वेदस्य तद्विशेषस्य लुप्तितः । तत्प्राग कर धदा पनिचिन्यतः ॥१७८४॥ तन्न प्रतिपत्त्याशुभावनिबन्धनत्वेन कोलाहलश्रुतेविभ्रमत्वमुपपन्नं बाधारहितत्वेन तात्त्विकत्वस्यैवोपपत्तेरिति । भवतु नाम बहुजनताल्वादिव्यापारप्रेरितोपसर्पदनेकभेदाभिध्वानजनितनानारूपसंस्काराधिकरणदेशभेदाधिष्ठानतया श्रोत्रस्य कलकलश्रुतिवेलायां यगपदने कशब्दोपलब्धिनिबन्धनत्वं न पुनरेकाभिध्यानोपजनितसंस्कारक्रोडीकुरीकप्रदेशस्य, तस्यैकशब्दोपलब्धावेव निमित्तभावोपपत्तेरिति चेत् अत्राह ताल्वादिसमिधानेन शब्दोऽयं यदि जायते । को दोषो येन नित्यत्वं कुतश्चिदवकल्प्यते ॥३८।। इति । ताल्वादेरादिशब्दाग्जिह्वामूलादेयंत् सन्निधानं कार्योत्पत्ती आनन्तयं तेन शम्योऽयं प्रतीयमानो यदि जायते निष्पद्यते को दोषो येन दोषेण नित्यत्वं कौटस्थ्यं कृतश्चित् . प्रत्यभिज्ञानादन्यतो बा शब्दस्यायकलप्यते सम्भाव्यते इति। तात्पर्यमत्र ताल्वादिसन्निधानात् यदि शब्दस्य व्यक्तिः; समानदेशस्य सर्वक्ष्यापि श्रोत्रविषयस्य स्यात् तग्निबन्धनस्य श्रोत्र. संस्कारस्यापि तथैवोपपत्तेः; इन्द्रियान्तरे तथैव प्रतिपत्तेः । न चैवम्, अतो व्यञ्जकधर्मानु२५ पलब्धेः जनकत्वमेव तस्योपपन्नमिति, तजनकत्वे कार्यत्वेन शब्दस्यानित्यत्वात् कथ सम्बन्धोपदर्शन यतो वाचकत्वेन व्यवहारोपयोग इति चेत् ? नित्यत्वेऽपि कथं 'पूर्वो ह्रस्वः परो दीर्घः' इति भेदप्रतिपत्तिः ? व्यजकध्वानस्य तद्धर्मणस्तत्रोपधानात् न तत्त्वभावादिति चेत् तस्यापि तत्त्वतो ह्रस्वादिभेदधर्मत्वे कथं स एवार्य देवदत्तस्य ध्वनिरित्येकत्वप्रतिपत्तिः, यतः स्वरेण पुत्रप्रतिपत्तिरानुमानिकी ? तत्रापि ध्वन्यन्तरोपधानाधीनप्रादुर्भावव तद्भेद३० प्रतिपत्तिरिति चेत्, न; ध्वन्यन्तरेऽपि प्रकृतप्रसझमानतिवृत्तेरनबस्थापत्तेश्च । यदप्यक्तम "धमीनाः भिन्नदेशरवं श्रुतिस्तत्रानुरुद्धपते । अपूरितान्तरालस्यात् . विच्छेवश्चावसीयते ॥ तेषां बाल्पकवेशत्वात् वाम्बस्याविभुता मतिः । गतिमवेगवस्वाभ्यां ते चायान्ति यतो यतः ॥ श्रोता ततस्ततः शम्बमायान्तमिव मन्यते ।" [ मी० श्लो० शब्दनि० श्लो० १७४-७६ ] इति । १ -निर्वानस्य मा। २० ३५

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521