Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 424
________________ १५ न्यायविनिश्चयविचरणे [३४-२५ प्रमाणमिति विभक्तिपरिणामालब्ध ज्ञानमिति च वक्ष्यमाणमत्रापि सम्बध्यते । ततो सत्प्रमाणं तद् ज्ञानम् अन्यथा तदनुपपत्तेरित्युक्तं भवति । विचन्द्रादिज्ञानस्यापि प्रामाण्यप्रसङ्गे तन्निवृत्त्यर्थम् अविप्लवग्रहणम् । 'व्यवहारत एवं केवलमविप्लवत्वं वस्तुत: सर्व ज्ञानानां स्वप्नादिवत्सविप्नबस्वात्' इत्यस्य ध्युदासार्थम् अञ्जसा ग्रहणम् । वस्तुतः ५ क्वचिदन्यविप्लवाभावे । सर्वज्ञाननितम्यापि दुरुप पादावेन निझापितत्वात । तुच्च प्रमाणं द्विविधं प्रत्यक्ष परोक्षमिति । प्रत्यक्षं स्पष्टं परिस्फुटम् । तदपि द्विविधम् मुख्यसंध्यवहारविकल्पात् । मुख्यमप्पवधिमनःपर्ययकेवल भेदात् त्रिविधम् । व्यावहारिकमपि द्विविधम्-इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षमिति च निरूपितरूपम् । अन्यविति परोक्षम् । तत्कीदृशम् ? श्रुतं 'अस्पष्टोल्लेखम् । "श्रुतमस्पष्टतकणम्" [त० श्लो. पृ० २३७] इति वचनात् । तच्च १. प्रत्यभिज्ञानौ स्मरणादौ । प्रत्यभिज्ञापदेन तत्कारणत्वेन स्मरणस्याभिधानात् । प्रकीर्ण प्रक्षिप्त म बहिर्भूतम्, समानादेरपि तद्वहिर्भावे परपरिकल्पितप्रमाणसङ्ख्यानियमाभावस्य निरूपणान् । ततो द्वे एत्र प्रत्यक्ष परोक्षरूपे प्रमाणे इति सनग्रहः समक्षेपतः प्रतिपत्तिः शास्त्रार्थस्य । सम्प्रति परोक्षविकल्पानां प्रागुपवणितमपि प्रामाण्यमनुस्मरणार्थ पुनरुपदिदर्शयिषुः प्रथमं तदाद्यत्वात् स्मरणज्ञानस्योपदर्शयति इदमेवमिति ज्ञानं महीतग्रहणेऽपि नः । इति । द्विविध त्र स्मरणम् 'इदमेवम्' इत्येकम्, 'एवम्' इति च द्वितीयम् । तदुभयम् 'इदमेवम्' इत्युच्यते, परस्याप्येवम्पदस्य समानश्रुतिकत्वेनकोच्चारणगम्यस्यात्र भावात् । तत्र यदवबहादेरक्षज्ञानस्यानन्तरमर्थाभिलापस्मरणेन 'नीलमिदं पीतमिदम्' इत्याकारं ज्ञानं तदिदमेयमिति स्मरणम् । तदस्माकं प्रमाणमविसंवादात् प्रत्यक्षवत् । अपूर्वार्थाभावानेति चेत् । न: प्रत्यक्षगृहीतस्य तेन ग्रहणेऽपि कथञ्चिदपूर्थित्वात् शद'संसृष्टत्वस्यागृहीतस्यैव प्रतिपत्तेः । प्रत्यक्षविषयस्य क्षणिकत्वेनापक्रमान् कथं तस्यैव पुनस्तसंसृष्टत्वेन ग्रहण मिति चेत् ? न; एकाननः क्षणिकत्वस्व प्रतिक्षिप्तत्वात् । कथञ्चिदक्षणिकत्वेऽपि पूर्वाकारस्यातीतत्वनाग्रहणात् । कथं तस्यैव पुनर्विशिष्टस्य ग्रहणमिति चेत् ; नः शक्तिविशेष क्षयोपशमलक्षणे "सत्यतीतत्वादेर किञ्चित्करत्वात् । क्षणिकत्वेऽपि भावानां कथमस्याप्रामाण्यम् ? अस्वलक्षणविषयत्वादिति चेत् अनुमानस्यापि स्यात् । स्वलक्षणप्रतिबन्धान्नेति चेत्; न: अप्रापि तुल्यत्वात, पारम्पर्येण स्वलक्षणादुत्पत्तेरविशेषात । ततोऽवश्यं प्रमाणयितव्यं व्यवहारमिद्धत्वाच्च । अन्यथा "प्रामाण्यं व्यवहारेण" [प्र. बा. ११७ ] इत्यसङ्गतं स्यात् । तथा यदेत्रमिति ज्ञानमतीतमात्रस्मरणं तदपि प्रमाणं तद्वदेवाविसंवादात् । गृहीतग्नाहित्वान्नेति चेत; अनुमान कथम् ? समारोपन्यवच्छेदादिति चेत् न; स्मरणादप्यदर्शनसमारोप३० व्यवच्छेदेन व्यवहारप्रसिद्धः । ततो युक्तं तस्यापि प्रामाण्यं कथञ्चिदपूर्वार्थत्वस्यापि भावात, सन्निहिततया हि तद्ग्रहणमक्षज्ञानेन अतीततया च स्मरणेनेति । साम्प्रतं तकस्य प्रामाण्यं दर्शयितुमाह प्रत्यतेऽर्थेऽन्यथारोपन्यवच्छेदप्रसिद्धये ॥४॥ अनुमानम् [ अतो हेतुव्यवच्छेदेऽनवस्थितिः] इति । गामितीति प्रा०, ०, ५०।२-दविप्लवा--भा०, प., प.। ३ मतिपूर्व अतं प्रौसमविस्वष्टार्थतर्करणम् । -त. सा. श्खो १५। ४-वे परिक-- मा०, प.। ५-कारं तधि-प्र०,०प०।६-संस्कृष्टव- भाग, म, प० । ७ सयभीत-भा०,०,५०।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521