________________
१५
न्यायविनिश्चयविचरणे
[३४-२५ प्रमाणमिति विभक्तिपरिणामालब्ध ज्ञानमिति च वक्ष्यमाणमत्रापि सम्बध्यते । ततो सत्प्रमाणं तद् ज्ञानम् अन्यथा तदनुपपत्तेरित्युक्तं भवति । विचन्द्रादिज्ञानस्यापि प्रामाण्यप्रसङ्गे तन्निवृत्त्यर्थम् अविप्लवग्रहणम् । 'व्यवहारत एवं केवलमविप्लवत्वं वस्तुत: सर्व
ज्ञानानां स्वप्नादिवत्सविप्नबस्वात्' इत्यस्य ध्युदासार्थम् अञ्जसा ग्रहणम् । वस्तुतः ५ क्वचिदन्यविप्लवाभावे । सर्वज्ञाननितम्यापि दुरुप पादावेन निझापितत्वात । तुच्च प्रमाणं
द्विविधं प्रत्यक्ष परोक्षमिति । प्रत्यक्षं स्पष्टं परिस्फुटम् । तदपि द्विविधम् मुख्यसंध्यवहारविकल्पात् । मुख्यमप्पवधिमनःपर्ययकेवल भेदात् त्रिविधम् । व्यावहारिकमपि द्विविधम्-इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षमिति च निरूपितरूपम् । अन्यविति परोक्षम् । तत्कीदृशम् ? श्रुतं
'अस्पष्टोल्लेखम् । "श्रुतमस्पष्टतकणम्" [त० श्लो. पृ० २३७] इति वचनात् । तच्च १. प्रत्यभिज्ञानौ स्मरणादौ । प्रत्यभिज्ञापदेन तत्कारणत्वेन स्मरणस्याभिधानात् । प्रकीर्ण प्रक्षिप्त
म बहिर्भूतम्, समानादेरपि तद्वहिर्भावे परपरिकल्पितप्रमाणसङ्ख्यानियमाभावस्य निरूपणान् । ततो द्वे एत्र प्रत्यक्ष परोक्षरूपे प्रमाणे इति सनग्रहः समक्षेपतः प्रतिपत्तिः शास्त्रार्थस्य ।
सम्प्रति परोक्षविकल्पानां प्रागुपवणितमपि प्रामाण्यमनुस्मरणार्थ पुनरुपदिदर्शयिषुः प्रथमं तदाद्यत्वात् स्मरणज्ञानस्योपदर्शयति
इदमेवमिति ज्ञानं महीतग्रहणेऽपि नः । इति । द्विविध त्र स्मरणम् 'इदमेवम्' इत्येकम्, 'एवम्' इति च द्वितीयम् । तदुभयम् 'इदमेवम्' इत्युच्यते, परस्याप्येवम्पदस्य समानश्रुतिकत्वेनकोच्चारणगम्यस्यात्र भावात् । तत्र यदवबहादेरक्षज्ञानस्यानन्तरमर्थाभिलापस्मरणेन 'नीलमिदं पीतमिदम्' इत्याकारं ज्ञानं तदिदमेयमिति स्मरणम् । तदस्माकं प्रमाणमविसंवादात् प्रत्यक्षवत् । अपूर्वार्थाभावानेति चेत् । न: प्रत्यक्षगृहीतस्य तेन ग्रहणेऽपि कथञ्चिदपूर्थित्वात् शद'संसृष्टत्वस्यागृहीतस्यैव प्रतिपत्तेः । प्रत्यक्षविषयस्य क्षणिकत्वेनापक्रमान् कथं तस्यैव पुनस्तसंसृष्टत्वेन ग्रहण मिति चेत् ? न; एकाननः क्षणिकत्वस्व प्रतिक्षिप्तत्वात् । कथञ्चिदक्षणिकत्वेऽपि पूर्वाकारस्यातीतत्वनाग्रहणात् । कथं तस्यैव पुनर्विशिष्टस्य ग्रहणमिति चेत् ; नः शक्तिविशेष क्षयोपशमलक्षणे "सत्यतीतत्वादेर किञ्चित्करत्वात् । क्षणिकत्वेऽपि भावानां कथमस्याप्रामाण्यम् ? अस्वलक्षणविषयत्वादिति चेत् अनुमानस्यापि स्यात् । स्वलक्षणप्रतिबन्धान्नेति चेत्; न: अप्रापि तुल्यत्वात, पारम्पर्येण स्वलक्षणादुत्पत्तेरविशेषात । ततोऽवश्यं प्रमाणयितव्यं व्यवहारमिद्धत्वाच्च । अन्यथा "प्रामाण्यं व्यवहारेण" [प्र. बा. ११७ ] इत्यसङ्गतं स्यात् । तथा यदेत्रमिति ज्ञानमतीतमात्रस्मरणं तदपि प्रमाणं तद्वदेवाविसंवादात् । गृहीतग्नाहित्वान्नेति
चेत; अनुमान कथम् ? समारोपन्यवच्छेदादिति चेत् न; स्मरणादप्यदर्शनसमारोप३० व्यवच्छेदेन व्यवहारप्रसिद्धः । ततो युक्तं तस्यापि प्रामाण्यं कथञ्चिदपूर्वार्थत्वस्यापि भावात, सन्निहिततया हि तद्ग्रहणमक्षज्ञानेन अतीततया च स्मरणेनेति । साम्प्रतं तकस्य प्रामाण्यं दर्शयितुमाह
प्रत्यतेऽर्थेऽन्यथारोपन्यवच्छेदप्रसिद्धये ॥४॥
अनुमानम् [ अतो हेतुव्यवच्छेदेऽनवस्थितिः] इति । गामितीति प्रा०, ०, ५०।२-दविप्लवा--भा०, प., प.। ३ मतिपूर्व अतं प्रौसमविस्वष्टार्थतर्करणम् । -त. सा. श्खो १५। ४-वे परिक-- मा०, प.। ५-कारं तधि-प्र०,०प०।६-संस्कृष्टव- भाग, म, प० । ७ सयभीत-भा०,०,५०।