Book Title: Nyayavinishchay Vivaranam Part 2
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
३७७-७८ ]
३ प्रवचनप्रस्तावः
३५७
न च तत्प्रभवत्वमृत्पत्तिसमये शक्यावसायम्, तदानीं तद्गर्भत्वा तद्गर्भत्वयोरविवेचनात् । 'प्रवृत्तित: शक्यावसायमेव तदिति चेत् न दोषाशङ्कायां प्रवृत्तेरेवासम्भवात् । तन्न प्रत्यक्षं निःशङ्कम् । एवमनुमानमपि । तस्यासम्भवाच्च । नहि निःशङ्कप्रत्यक्षस्याभावे ततः सम्बन्धप्रतिपत्तिः यतोऽनुमानं सम्भवेत् । सत्यपि तस्मिन् कथं ततः साकल्येन तत्प्रतिपत्तिः ? तस्य सन्निहित वस्तुमात्रविषयत्वात् । अनुमानतस्तत्प्रतिपत्तावन वस्थापतेः । प्रादेशिकतत्प्रतिपत्तेश्च व्यभिचारेणानुमानकारणत्वायोगादिति चेत् सत्यम् अयमपि परस्य पर्यनुयोगः | तत्र प्रत्यक्षानुमानयोर्निरारेकर प्रामाण्यं वस्तु' प्रतिबन्धनिदचयाभावात् । एवमेतत् तथापि व्यवहर्तुं जनाभिप्रायेणा विसंवादा'त्तयोः प्रामाण्यमभ्यनुज्ञायते । अन्यथा सकलव्यवहार विलोप प्रसङ्गादिति चेत् प्रवचनस्यापि तथैव तदभ्यनुज्ञातव्यम्, तदभावेऽपि तदर्थानुष्ठानादिव्यवहारस्याभावप्रसङ्गात् । तत्र व्यवहारतोऽपि प्रमाणद्वैविध्यकल्पन- १० स्वरस्यापि भावात् । तहि प्रचचनवत् प्रत्यक्षानुमानयोरपि तन्मा भूत्, संविद द्वैतस्यैव पारमार्थिकस्य प्रमाणस्य भावादिति चेत् तस्यापि कथं प्रामाण्यम् ? स्वरूपप्रकाशनस्य गुणस्य दर्शनादिति चेत् प्रवचनस्यापि स्यात् तत्रापि सत्यचतुष्टयप्रकाशनस्य तस्य दर्शनात् । प्रत्यागमेन व्यभिचार इति चेत् भवतोऽपि भेदप्रकाशेन कस्मान्न भवति ? तत्र विचारासह त्वदोषस्य भावात् । तस्य चाद्वैतसंवित्तावदर्शनादिति चेत्; समानमितरत्रापि । १५ ततः स्वसंवेदनं प्रमाणयता प्रवचनमपि प्रमाणमभ्युपगन्तव्यमविशेषात् । एतदेवाहप्रत्यक्षागमयोरिष्टं प्रामाएयं गुणदोषयोः ।
उपलब्ध्यनुपलब्धिभ्यां क्वचिद्दृशसमत्वतः ॥ ७७ ॥ इति ।
चित् विषययोरतचतुः सत्ययोः यथाक्रमं प्रत्यक्षागमयोः स्वसंवेदन प्रवचनयोः प्रामाण्यमिष्टं अभ्युपगतम् । तदिच्छाया निष्पन्नत्वेनाशक्यचालनत्वज्ञापनार्थ निष्ठायां २० निर्देश: । कुतस्तदिष्टम् ? वृत्तसमत्यतः वृत्तम् अनन्तरव्यावर्णितं यत्प्रत्यक्षागमयोः समत्वं सादृश्यं तत इति । तदेव कुतः ? इति चेत् गुणदोषयोः उपलब्ध्यनुपलभ्यामिति व्याख्यातमिदं पातनिकयैव । तदेवं प्रवचनस्य प्रामाण्ये यत्सिद्धं तदाह
तथा साक्षात्कृताशेषशास्त्रार्थोऽज्ञानपेक्षणात् । सद्वृत्त केवलज्ञानः सर्वज्ञः सम्प्रतीयते ॥ ७८ ॥
५
१. द्गर्भव था.
२ प्रतिः शश्या-आ० ब०, प० । रे-रेकामा-भा ब०, प० । ४ वस्तुनिश्व प्रा० ० ५ -येण वि आ, ब०, प०६ - दामिसंज्ञातयोः मा० ५० प० । ७ प्रवचन | दुःखसत्यम्, समुश्ययत्यम्, निरोधायम, मार्गसम्म मिति सत्यचतुष्टयम् । स्यादेव भदनः । १० - दोषो आ०, ब०, प० । ११ "विशेष इति सम्बन्धः" सा०दि०
२५
तथा तेन प्रवचनप्रामाण्यप्रकारेण तस्य प्रणेता सर्वज्ञः सकलवेदी सम्प्रतीयते प्रणेतुः सर्वज्ञत्वाभावे तत्प्रामाण्यानुपपत्तेः निरूपणात् । कीदृशोऽसौ सर्वज्ञः इति चेत् ? 'स्यादेवं यदि नियतार्थमेव प्रवचनम्, न चैवम् तस्यापि प्रत्यक्षानुमेयात्यन्तपरोक्षलक्षणस्थानत्रयपरिवर्ति पदार्थ जातविषयत्वेनाशेष" गोचरत्वात् तज्ज्ञानादेव सर्वज्ञत्वोपपत्तेः । यद्येवं स्थादर्हतः को विशेषः ? तस्याभ्यागमतो सर्वशत्वसम्भवादिति चेत् सर्वविषयसाक्षात्करणमेव । ३० अतएवोक्तं साक्षाशास्त्रार्थः इति । अशेषस्य शास्त्रार्थस्य साक्षात्करणं भगवः येव, कलावरणपरिक्षयस्य तनिबन्धनस्य तत्रैव भावात् न छपस्थे विपर्ययात् । निरूपितश्च तस्य

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521