________________
३१२
न्यायविनिश्चय विपरणे
[२३ अथवा, वंशववंशोऽक्षरसमाम्नायः समस्तस्यापि वाङमयस्य तत्प्रभवत्वात्, तस्यादिस्वरः अवर्णस्तत्प्रथमत्वेन लोके तस्य पाठात्, तस्य धारा मात्राद्यवच्छिन्नकालानुवृत्तिः तस्यां संकुलाप्रसिपत्तित इति व्याख्येयम् । अत्रापीदमैदम्पर्यम्-आशुप्रतिपत्त्या शब्देषु
योगपद्यभ्रमकल्पनायाम अवर्णस्याप्यतिसूक्ष्मसमयावच्छिन्नाद्यश्रतावेव उत्तरोत्तरसमय५ समनुयायिनीनामपि श्रुतीनामाशुभावेन. अनुप्रविष्टतया प्रतीत्युपस्थानात् संकुलप्रतिपत्त्या
भवितव्यम् । एवम् इवर्णादावपि वक्तव्यम्, आदिस्वरग्रह्णस्योपलक्षणत्वात् । एवं चैकमात्रादिभेदेन अचामर्धमात्रतया हलामपि प्रतिपत्तेरभावात् प्रसिद्धोऽपि व्यक्सवाग्व्यवहारः प्रध्यस्तो भवेत्, तस्य अच्-हल्विभागप्रतीतिपुरस्सरतया तदभावेऽनुपपत्तेः ।
आशुग्रहेण शब्वेषु योगपद्यभ्रमं ब्रुवन् । पक्तवारव्यवहाराय देहि भद्र जलाञ्जलिम् ।।१७८३।। तदभावे च वेदस्य तद्विशेषस्य लुप्तितः ।
तत्प्राग कर धदा पनिचिन्यतः ॥१७८४॥ तन्न प्रतिपत्त्याशुभावनिबन्धनत्वेन कोलाहलश्रुतेविभ्रमत्वमुपपन्नं बाधारहितत्वेन तात्त्विकत्वस्यैवोपपत्तेरिति । भवतु नाम बहुजनताल्वादिव्यापारप्रेरितोपसर्पदनेकभेदाभिध्वानजनितनानारूपसंस्काराधिकरणदेशभेदाधिष्ठानतया श्रोत्रस्य कलकलश्रुतिवेलायां यगपदने कशब्दोपलब्धिनिबन्धनत्वं न पुनरेकाभिध्यानोपजनितसंस्कारक्रोडीकुरीकप्रदेशस्य, तस्यैकशब्दोपलब्धावेव निमित्तभावोपपत्तेरिति चेत् अत्राह
ताल्वादिसमिधानेन शब्दोऽयं यदि जायते ।
को दोषो येन नित्यत्वं कुतश्चिदवकल्प्यते ॥३८।। इति । ताल्वादेरादिशब्दाग्जिह्वामूलादेयंत् सन्निधानं कार्योत्पत्ती आनन्तयं तेन शम्योऽयं प्रतीयमानो यदि जायते निष्पद्यते को दोषो येन दोषेण नित्यत्वं कौटस्थ्यं कृतश्चित् . प्रत्यभिज्ञानादन्यतो बा शब्दस्यायकलप्यते सम्भाव्यते इति। तात्पर्यमत्र ताल्वादिसन्निधानात् यदि शब्दस्य व्यक्तिः; समानदेशस्य सर्वक्ष्यापि श्रोत्रविषयस्य स्यात् तग्निबन्धनस्य श्रोत्र.
संस्कारस्यापि तथैवोपपत्तेः; इन्द्रियान्तरे तथैव प्रतिपत्तेः । न चैवम्, अतो व्यञ्जकधर्मानु२५ पलब्धेः जनकत्वमेव तस्योपपन्नमिति, तजनकत्वे कार्यत्वेन शब्दस्यानित्यत्वात् कथ
सम्बन्धोपदर्शन यतो वाचकत्वेन व्यवहारोपयोग इति चेत् ? नित्यत्वेऽपि कथं 'पूर्वो ह्रस्वः परो दीर्घः' इति भेदप्रतिपत्तिः ? व्यजकध्वानस्य तद्धर्मणस्तत्रोपधानात् न तत्त्वभावादिति चेत् तस्यापि तत्त्वतो ह्रस्वादिभेदधर्मत्वे कथं स एवार्य देवदत्तस्य ध्वनिरित्येकत्वप्रतिपत्तिः,
यतः स्वरेण पुत्रप्रतिपत्तिरानुमानिकी ? तत्रापि ध्वन्यन्तरोपधानाधीनप्रादुर्भावव तद्भेद३० प्रतिपत्तिरिति चेत्, न; ध्वन्यन्तरेऽपि प्रकृतप्रसझमानतिवृत्तेरनबस्थापत्तेश्च । यदप्यक्तम
"धमीनाः भिन्नदेशरवं श्रुतिस्तत्रानुरुद्धपते । अपूरितान्तरालस्यात् . विच्छेवश्चावसीयते ॥ तेषां बाल्पकवेशत्वात् वाम्बस्याविभुता मतिः । गतिमवेगवस्वाभ्यां ते चायान्ति यतो यतः ॥ श्रोता ततस्ततः शम्बमायान्तमिव मन्यते ।"
[ मी० श्लो० शब्दनि० श्लो० १७४-७६ ] इति । १ -निर्वानस्य मा।
२०
३५