________________
३१३९] ३ प्रयचनप्रस्तायः
३१३ तदायत एवं पर्यु दस्तम्; ध्वनीनामपि कालभेदिनामिव देशभेदिनामपि प्रत्यभिज्ञाप्रत्ययन लादेकत्वनिश्चये व्यापित्वस्यत्रोपपतेः, तत्त्वतो भिन्न देशत्वादेरसम्भवात् तदुराधानबलेन शब्ने तत्परिज्ञानस्याशक्यकल्पनत्वात् । तनाप्यपरतदुपधानवशास् देशभेदादिपरिकल्पनायां चानवस्थानदौःस्थ्यस्त दुस्तरस्वोपस्यानात् । तात्त्विक एव ध्वनी ह्रस्वादिधर्मों बाधकामावादिति नेत्। न; शब्देऽपि तुल्यत्वात् । प्रत्यभिज्ञाने तद्वारस्य ध्वनिब देव निबार- ५ णात् । ननु यदि ध्वनिधर्मस्य ह्रस्वादेरननुभूतस्यैव स्वप्ने स्वशिरोविशरणादेरिय शब्दे विभ्रमः, तहि सकलस्यापि बहिर्भावस्य स्वप्ने विभ्रमदर्शनात् जाग्रदशायामपि तत्कल्पनोपनिमातेन बहिरर्थवाद: प्रध्वस्तो भवेत् । अनुभवास्वादितपूर्वस्यैव तस्य तत्र विभ्रमे क्ब तस्यानुभवः ? व्यक्तिविधायिनि ध्वनावेवेति चेत् तस्यापि तहि श्रोत्रविषयत्वं वक्तव्यम्, अन्यथा तद्धर्मस्य ह्रस्वादेरपि तदनुपपत्तेः । तथा च स एव तत्वतस्ताल्वादिस्थानविभाग- १० सन्निपातोपनिपातोपनीतह्रस्वदीर्घादिस्वभावभेदाधिष्ठानतया बुद्धिविषयतामध्यासीनो वर्णतया वर्णयितव्यो नापरस्तदप्रतीतेः । तथाऽपि तत्परिकल्पनायां ततोऽप्यपरस्ततोऽप्यपर इति न क्वचिदवस्थिता तत्प्रक्लुप्तिभवेत् । 'न चेदृश्यपि नित्यत्वाप (त्यत्वप) रिकल्पनम्, भेदवत्वेनाप्यव्यवसायात् । तदुक्तं मण्डनेन
"श्रवणपाहतायां तु मरतः कोष्ठजन्मनः । तावाविप्रविभक्तस्य शब्दस्वं स च भवान् ॥"
] इति । सत्यमयमप्यस्ति परस्य पर्यनुयोगः । तन्न व्यञ्जकधर्मोपधानात् वर्णेषु दीर्घादिभेदप्रतिपत्तिः 'बाधविरहात् । न हि प्रत्यभिज्ञयाऽपि तस्या धाधोऽस्ति तयाऽपि तदनुविद्धतयैव तेषामनुभवात् । तदन्यथा तत्कल्पनायामनुभवापलापदोषापसे: । न बानित्यत्वे तेषां सम्बन्ध- २० दर्शनाद्यनुपपत्तिः। अग्रतस्तदुपपत्तेरवकल्पनात् । ततो युक्त सरवादिसन्निधानेन शब्दस्योत्पतेरनित्यत्वमेव दोषस्य कस्यचिदप्यभावात्, न नित्यत्वम्, तत्र सति सर्वदत्रोपलब्धिप्रसङगात् । भवतोऽपि तदुपादानस्य प्राग्भाविनः वातो नोपलब्धिरिति चेत् ? अत्राह
उपादानस्य सूक्ष्मत्वाद् युक्तं चानुपलम्भनम् । इति । यत् खलु शब्दस्योपादानं परिणामिकारणं भाषावर्गगामापुद्गलस्वान्धरूपं तस्य २५ युक्तमुपपन्नम् ; अनुपलम्भनं न केवलं शब्दस्य जायमानत्यमेवेति शब्द । कुतस्तदुपपन्नम् ? सूक्ष्मस्वात् श्रवणयोग्यपरिणामाभावात् । न चैवं नित्यत्वेऽपि समाधानम् : तत्र सर्वदा तस्य तद्योग्यस्यैव भावात् । प्रत्यभिज्ञानात् तत्र नित्यत्वमेयोषान्न न भेदः, तत्प्रतिपत्तेस्तेनैव प्रतिक्षेपादिति चेत् । अत्राह
साहश्यान्नैकरूपत्वात् स एवापमिति स्थितिः ||३६।। इति । ३०
भवत्येव तेन तत्प्रतिक्षेपो यदि तत्वतस्तस्य तदेकत्वावलम्बनत्वम्, न चैवम्', तन्न 'स्वतन्त्रत्वे तु इत्यादिना' बायोपदर्शनात् । अतः सत्यपि तत्र स एवायमिति प्रत्यभिज्ञारूपा स्थितिः पूर्वापरयोर्वर्णयोर्य मलकयोरेव (रिव) सदृशपरिणामोपाश्रयतया प्रवर्तमाना न तत्प्रती. तिप्रतिक्षेपायालम् । यदि चायं निर्बन्धः तथाभूतयाऽपि प्रत्यभिज्ञया तत्प्रतिक्षेपात् नित्य एवं शब्द इति । तत्राह
१न चेते रस्य-मा०।२ वाचकचिर-पा०1३ शब्दाभाम् । ४१०३०४५ सहजातयोरिष।
४.