________________
३६३७] ३ प्रवधनप्रस्तावः
३११ मा भूदेवं वर्णसंस्कारो विचारप्रदीपव्यापारदुरुपपादत्वात्, श्रोत्रसंस्कारस्तु न दुष्यति श्रोत्रस्य भागवत्त्वेन प्रदेशतः संस्कारसम्भवादिति चेत्, न; तत्संस्कारादपि वर्णस्य व्यापिन एवोपलब्धिर्भवेत् नाव्यापिनस्तस्याभावात् ।
असतोऽप्युपलब्धिश्चेत् भ्रान्तिरेव प्रसज्यते । श्रोत्रबुद्धिः समस्ताऽपि व्योमपद्मादिबुद्धिवत् ।।१७७५।। संस्कृतादपि च श्रोत्रायथैकस्योपलम्भनम् । वर्णस्य तद्वदन्येषां तदेशत्वात् प्रसज्यते ॥१७७६।। न हि चक्षुर्घटं द्रष्टुं तद्वताऽपितसंस्क्रियम् । तदेशस्तम्भकुम्भादि न पश्यति पुर:स्थितम् ।।१७७७।। यथा चाशेषवर्णानां सर्वदा युगपद्गतेः । सदैककप्रतीतिस्ते प्रसिद्धापि न सिद्धयति ।।१७७८।। एककस्यैव सांवत्ती श्रोत्र यदि च शक्तिमत् ।
कथं सग्रामरगादी जनकोलाहलश्रवः ॥१७७९|| एकहेलया बहुविधानेकशब्दसन्दोहश्रवणं हि कोलाहलश्रवणं प्रसिद्धम् । न तत् एककवर्णश्रवण एव संस्कृतस्यापि श्रोत्रस्य सामध्ये शक्यसम्भावनमिति दूरापमारितस्तद्व्यव- , हारः स्यात् । तत्रापि क्रमवदेव तच्छ्रवणम्, योगपद्याभिमानस्तु तदाशुभावनिबन्धनाद्विभ्रमा- . देवेति चेत् । तदसारम्; अतिप्रसङगात् । तमेव दर्शयन्नाह
वंशादिस्वरधारायां संफुलामतिपत्तितः।
क्रमेणाशुग्रहेऽयुक्तः सकृदग्रहणविभ्रमः ॥३७॥ इति । कोलाहलश्रवणदशायां य: सद्ग्रहणे विभ्रमः शब्देषु अयम् अयुक्तोऽनुपपन्नः । २० कस्मिन् निमित्ते सति भवन्नसा [व] युक्तः ? क्रमणाशप्रहे परिपाट्या शब्दानां शीघ्रमपलम्भे सति । शेत्यादिरत्र हेतुः । वंश आविर्यस्य वीणारावणहस्तादेस्तस्य स्वरः षड्जादिस्तस्य धारा कालकृता दीर्घता। सा च षड्जस्य चतुःश्रुतिः, एवं प्रत्येक पञ्चममध्यमयोतिश्रुतिः निषादगान्धारयोः ऋषभवतयोस्तु त्रिश्रुतिः । तदुक्तम्
"धसुवचतुश्चतुश्चैव षड्जपञ्चममध्यमाः । द्विद्धिनिषादगान्धारी प्रिस्त्रिवर्षभवतो ॥"[
] इति । तस्यां साकलं सकुलत्वं भावपरत्वानिर्देशस्य तस्य अप्रतिपत्तितः । "क्रमेणाशुग्रहे इत्यत्रापि योज्यम् । एतदुक्तं भवति
आशुग्रहण शब्देषु गौमपद्यभ्रमो भवन् । वंशादिस्वरधारायामपि स्यात्तदभेदतः ॥१७८०|| तथा धादिश्रुतावेव द्वितीयादेः प्रवेशनात् । चतुःश्रुत्यादिभेदेन स्वरभेदग्रहः कथम् ।।१७८१॥ तदभावे च गीतस्य स्वरभेवावलम्बिनः ।
प्रसिद्धस्यापि ते बुद्धपा जीवनं पश्य नश्यति ॥१७८२।। ततो न प्रतीत्याशुभावात् शब्देषु योमपद्यविभ्रमः, सत्यपि तस्मिन् वंशादिस्वर- ३५ धारायां तदभावात् । न चेदमत्र वक्तव्यम्-आशुभावस्तत्प्रसीतो तादृशो नास्ति यतस्तविभ्रम इति; तवतिशायिनः तद्धावस्य' प्रतीतेः ।
१-स्थान-मा०।
-..--
-
---
-