SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे [३३१६ X वृत्तित्वादिति चेतु न दत्तोत्तरत्वात् । स्वत एवेति चेत् न तत्रापि कथम्' इत्यादेदोषात् । तस्यापि पुनः सम्बन्धाद् वर्ण वृत्तिकपनाय चक्रदोषस्थानवस्थाप्रसङ्गस्य चाविचलनात् । कथमेवं व्यापिन्यप्याकाशे तुलादिसम्बन्धस्याव्यापित्वमिति चेत् ? नः तस्य तत्प्रदेशवृत्तित्वेन तदुपपत्तेः । प्रदेशवत् खल्वाकाशमस्मन्मते प्रसिद्धम् - "आकाशस्यानन्ताः' प्रवेशाः [त० सू० ५९ ] इति सूत्रात् । तस्यापि निष्प्रदेशत्वपरिकल्पनायां प्रवृत्तप्रसङगान तिवृत्तेः । तन्नातिशयस्याव्यापिनः सम्भवः । सम्भवेऽपि न तेन वर्णस्य व्याप्तियोपलब्धिः । अव्याविना तु उपलब्धेनापि न किञ्चित् तावन्मात्रस्य अवाचकत्वात् । नायं दोषः, तावन्मात्रस्यापि वर्णतया परिपूर्णत्वात् । न हि तस्यावयवाः सन्ति यतस्तस्य प्रत्याकाशप्रदेश भागशो वृत्तिरुपलब्धिर्वा भवेत् तन्निषेधात् । न चैतावता तस्याव्यापित्वम्, एकत्रे वापरतत्प्रदेशे १० वपि तदेव तस्य सर्वत्र सर्वात्मनाऽपि प्रवृत्तेः । तदुक्तम् १५ २० २५ ३१० "यो यो गृहीतः सर्वस्मिन् देशे शब्दो हि विद्यते । सन्ति येन वर्तेत भागशः ॥ न चास्यावयवा: शब्दो वर्तत इत्येवं तत्र सर्वाश्मकश्च सः । पञ्जरुध्वन्यधीनत्वात् तद्देशे स च गृह्यते ॥ J [ मी० श्लो० शब्दनि० श्लो० १७१-७२ ] इति । ततस्तावतोऽपि वर्णतया परिपूर्णत्वात् तथैवोपलब्धत्वाच्चोपपन्नमेव वाचकत्वमिलि चेत्: उच्यते afदेशस्थवर्णस्य देशान्तरगतात्ततः ' विच्छेदे प्रापिता तस्य विरोधालोपपद्यते ॥ १७७१ ॥ अविच्छेदे तु तेनापि तद्देशे तस्य वर्तनात् । देशान्तराभिसम्बन्धो न शक्यपरिकल्पनः ॥ १७७२ ॥ सेनात्मना न चेत्तस्य तत्र वृत्तिः कथं तदा । सर्वात्मनैकदेशेऽपि तस्य वृत्तिः प्रकल्प्यताम् ।। १७७३ ।। वाचकत्वं यतस्तस्य परिपूर्णस्य दर्शनात् । कल्पयेम ततस्तस्य भागेनेव प्रवर्तनम् ।। १७७४ ।। न च भागस्योपलब्धस्यापि वाचकत्वम् । वाचकत्वे वा व्यर्थ तत्र व्याप्तिकरूपनम्, वाचकमात्रस्यैव वर्णत्वोपपत्तेः । तावदेव हि वर्णस्य स्वरूपमुपपन्नं यावता तत्प्रतियोजन नापरं तेन तदभावात् । तथाऽपि तरकल्पनायां घटादावपि तत्प्रसङ्गात् न कश्चिदव्यापी नाम भावो भवेत् प्रत्यभिज्ञानस्याविशेषात् । तत्र संस्कारकरणादपि साफल्यं प्रयासस्य । ३० नाप्यभिषेपप्रतिपादनात् ; ततस्तद्भावे शब्दकल्पनावैफल्यापत्तेः । तत्सहायाच्छब्दादेव तद्भाव इति चेत्; न; कूटस्थस्य सहायापेक्षायाः प्रतिक्षेपात् । एतदेवाह - व्यक्त्यावरण विच्छेदसंस्कारादिविरोधतः || ३६ || इति । व्यक्तिश्चावरणविच्छेवरच संस्कारश्व आदिशब्दादभिधेयप्रतिपादनादिश्च तस्य विरोधतः प्रतिपादितप्रकारेण नित्यव्यापिनि प्रयासनिबन्धनस्यासम्भवात् । प्रयासोऽनर्थको ३५ भवेत् इति पदसङ्गतिः प्रतिपत्तव्या । १ चैव सावता भा० । २पि तस्य ता ३ - गतास्ततः प्रा० । वत्। ४ तात्यादिप्रयत्नस्य ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy