________________
३।३६ ]
३ प्रवचनप्रस्तावः
३०९
किञ्च यद्यावरणं व्यवधानात् तन्न कालतः; नित्यत्वात् । नापि देशतः विभुत्वान् । नाप्युपलम्भस्य प्रतिबन्धात्; तज्जन्मनि शब्दस्यासामर्थ्य देवादेव तदभावात् । न ततस्तत्प्रतिबन्धेनापि सामर्थ्य सति तस्मिन् नित्यत्वेनाशक्यप्रध्वंसे तत्कार्यस्यावश्यकात् । आवरणमपि तत्प्रतिबन्धे योग्यमेवेति चेत् उपलब्धेस्तहि युगपद्भावाभावोपनिपातात्तदैवोपलब्धोऽनुपलब्धच शब्द इति प्रतीतिपथातिवर्तिनी भवन्मतिप्रवृत्तिरापद्येत । तत्र शब्दस्यावरणं नाम । सवोऽपि तस्य प्रयासाद् विश्लेषे शब्दस्योपलब्धिर्यदि व्यापकेन रूपेण : व्याप्यमपि जगत् तया प्रतिपत्तव्यम् तत्प्रतिपतिमन्तरेण व्यापक प्रतिपत्तेरनुपपत्तेः । तथा च श्रोत्रव्यापारस्यैवाशब्देऽपि जगति प्रवृत्तिमभ्युपगच्छन् कथमिदमभिदध्यात् “न रूपे यत्रवृत्तित:" [ मी० श्लो० चोदना० श्लो० ११४] इति । व्याप्यमप्रतिपद्यापि व्यापकप्रतिपत्तौ तु सकल जगदतियतोऽपि कस्यचित् तद्विषयज्ञानवतः प्रतिपत्तिसम्भवात् १० "सर्वशोऽयमिति सेवम्" [ मी० श्लो० चोदना० श्लो० १३४ ] इत्यादि परस्य पर्यालोचितवचनां परित्यजेत् । अथ न तद्रूपेग तस्योपलब्धिरकारादिरूपत एव तद्भावादिति; तन: निरंशस्योपलभ्येतरस्वभावतया भेदानुपपत्तेः । तदुपपत्तौ वा सांशतया वृद्धिह्रासादेरपि सम्भवात् असम्भवदर्थमेतदापद्येत
"वर्णोऽवयवात् वृद्धिह्रासौ न गच्छति । व्योमादिववतोऽसिद्धा वृद्धिरस्य स्वरूपतः । " [मी० श्लो० शब्दनि० श्लो० २१३ ] इति । ततो नाचरण विश्लेषादपि किञ्चित् यतस्तत्करणेन प्रयासस्य साफल्यमवकल्प्येत । भवतु तर्हि संस्कारकरणात् तस्य तदवकल्पनमिति चेत्; उच्यते
१७६७॥
न तावदावृतिध्वंसः संस्कारस्तस्य दूषणात् । नाभिन्नातिशयाधानं कौटस्थ्ये तदसम्भवात् ।। १७६६ ॥१ भिन्नस्त्वतिशयस्तस्य शब्दस्येति कथं भवेत् ? तेनाप्यतिशयाधानमनत्रस्थानमुत् सन्नप्यतिशयस्तस्य यदि व्यापी तदा भवेत् । यावदूव्योमप्रवृत्तस्य शब्दस्य श्रवणं जनैः || १७६८।। न चैवमस्ति कस्यापि प्रतीतिः शब्दवस्तुति । प्रत्यासन्नापदेशस्य सर्वैस्तस्योपलम्भनात् ॥१७६९ ॥ अव्यापी यदि तेनापि वित्तिरव्यापिनो भवेत् ।
न हि ते तादृशो वर्ण: कविचदस्ति मनीषितः ।। १७७० ॥
५
१५
२०
२५
त्रयमध्याये वाऽतिशयः प्रदेशवृत्तित्वात् न वर्णे भवेत् तद्वृत्तिविषयस्य तत्प्रदेश- २० स्वाभावात् । उपाधिवशादस्त्येव तद्भाव इति चेत् न उपधिनाऽपि व्यापिना तदसम्भ वात् । अध्यायेव सोऽपि प्रदेशवृत्तित्वादिति चेत् न तत्रापि न वर्णे भवेत्' इत्यादेरावृत्ता चक्रकात् अनवस्थापत्तेश्च । न तत्प्रदेशवृत्तित्वात् अध्यापित्वमतिशयस्य अपि तु स्वत एवेति चेतु लयाऽपि कथमो वर्णे भवेत् ? सम्बन्धादिति चेत् न तेनापि याविना तस्याव्यापित्यानुपपत्तेः । अव्याप्येव सोऽपीति चेत्; कुतस्तस्याव्यापित्वम् ? प्रदेश
६५
१ शून्येऽपि । २-दर- था० । ३ स्वीकृत इति यावत् ।