________________ नैषधीयचरितं महाकाव्यम् व्याख्या-तस्य =पूर्वोक्तस्य, नरेन्द्रस्य =राज्ञो नलस्य, श्रियो - सौन्दर्यसम्पत्ती, निरीक्ष्य दृष्ट्वा स्मरामरेन्द्रो अपि-कामशको अपि, न स्मरामः-न चिन्तयामः, स्मरे सौन्दर्यमेव न सम्पत्तिः, इन्द्रे सम्पत्तिरेव न पुनः सौन्दर्य नले च द्विविधे अपि श्रियो वर्तेते अतस्तस्य आधिक्यमिति भावः / एवं च तस्मिन्न ले, क्षमयोः क्षितिक्षन्त्योः, सम्यक् = सुष्ठ, वासेन-स्थित्या, बुद्धी=स्वमती, शेषबुद्धी= अनन्तसुगतो, न दध्मः=न धारयामः, खलु = निश्चयेन / शेषः पृथिवीमेव धारयति न क्षान्ति, बुद्धौः क्षान्तिमेव धारयति न पुनः क्षितिम् / नलस्तु उभे अपि धारयति अतस्तस्य प्रकर्षाऽतिशय इति भावः // 36 // ____ अनुवाद-नलकी दोनों श्रियों ( सौन्दर्य और सम्पत्ति ) को देखकरकामदेव और इन्द्रका भी हम स्मरण नहीं करते / उसी प्रकार उन ( नल ) में दोनों क्षमाओं ( पृथ्वी और सहनशीलता) की अच्छी तरह स्थिति होने से शेष और बुद्धको हम अपने मन में धारण नहीं करते // 36 // टिप्पणी-नरेन्द्रस्य-नराणाम् इन्द्रः, तस्य (प० त०)। श्रियोश्रीश्च श्रीश्च श्रियो, ते, "सरूपाणामेकशेष एकविभक्तो" इससे एकशेष समास / "शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीः' इति शाश्वतः / स्मरामरेन्द्री= अमराणाम् इन्द्रः ( 10 त० ) / स्मरश्च अमरेन्द्रश्च, तो ( द्वन्द्वः ) / क्षमयोः= क्षमा च क्षमा क्षमे, तयोः, पूर्वसूत्रसे एकशेष / "क्षितिक्षान्त्यो क्षमा" इत्यमरः / शेष बुद्धी=शेषश्च बुद्धश्व, तो ( द्वन्द्वः ) / दध्मः=धा + लट् + मस् / इस पद्य में दोनों श्रियों और क्षमाओंका प्रकृत ( प्रस्तुत ) होनेसे केवल प्रकृतश्लेष है और सौन्दर्य आदि गुणोंसे स्मर आदियोंसे नलका आधिक्य होनेसे व्यतिरेक अलङ्कार है / यथासंख्यके साथ इनका सङ्कर है // 36 / / विना पतत्रं विनतातनूजः, समीरणरीक्षणलक्षणीयः। मनोभिरासीदनणुप्रमाणन निजिता दिक्कतमा ददश्वः // 37 // अन्वयः-पतत्रं विना विनतातनूजः, ईक्षणलक्षणीयः समीरणः, अनणुप्रमाणः मनोभिः, तदश्वः कतमा दिक् न लविता आसीत् // 37 // ___ व्याख्या-पतत्रपक्षं, विना=अन्तरेण, विनतातनूजः गरुडः, तदश्वरित्यत्र सम्बन्धः, एवमन्यत्राऽपि / ईक्षणलक्षणीयः=नयनदर्शनीयः, समीरणः वायुभिः (तदश्वः ), अनणुप्रमाणः=अणुपरिमाणरहितः, महापरिमाणरिति भावः / मनोभिः=अन्तःकरणः, कतमा- का, दिक्=काष्ठा,