Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ नेवायचरितं महाकाव्यम् अन्वयः-नेपथ्यमञ्जुः उाः उर्वशी सेयम् इयम् इयम्, अधिरथ्यं याति, वेदीम् विशति विशति इति जनजनितः सानन्दनादै: नलहृदि परमभीवर्णनाकर्णनाप्तिः विजघ्ने / व्याख्या-नेपथ्यमञ्जुः = प्रसाधनमनोहरा, उर्व्याः = धरित्र्याः, उर्वशी = तन्नाम्नी अप्सरा सेयम् = सा दमयन्ती, इयम् इयम् = इत्यङ्गुल्या निर्देशः / अधिरथ्यम् = रथ्याम्, याति = गच्छति / वेदीम् = स्वयंवरभूवेदिकाम्, विति विशति-प्रविशति प्रविशति, जनजनितः लोकोत्पादितः, सानन्दवादः = सहर्षरवैः नल हृदि नैषधहृदये, परभैमीवर्णनाकर्णनाप्तिः = इतरकृतदमयन्तीप्रशंसाश्रवणाधिगमः विजघ्ने - विघटितः / व्यवहितायतीत्यर्थः / टिप्पणी--नेपथ्येन मजुः नेपथ्यमञ्जुः (तृ० तत्पु०)। रथ्यायाधि अधिरथ्यम् विभक्त्यर्थेऽव्ययीभावः / जनैर्जनितः जनजनितः ( कर्तृकरण० ) इत्यादिना (तृ० तत्पु० ) / सानन्दंवादास्तः ( सुप्सुपा ) नलस्य हृदि नलहृदि (10 तत्पु० ) परभैमीवर्णनाकर्णनाप्तिः = परेषां भैमीवर्णनस्य आकर्णनम् तस्याप्तिः (10 तत्पु० ) विजघ्नेः =वि + हन्कर्मणि+लिट् / भावः--उर्वशीयं भुवो धिप्रतोलिव्रजत्येषका वेदिकायां विशत्युच्चकैः। हष्टहृष्टजनहर्षवादे कृते नैषधीयं मनो नान्यतः संययो॥ अनुवादः-धराधाम की उर्वशी सजधजकर यह गली में जा रही है रही है देखो यह उसी स्वयंवर वेदी में घुस रही है घुस रही है इस प्रकार लो के सहर्ष कोलाहल से नल के द्वारा दमयन्ती की प्रशंसा के श्रवण का अधिगः चित्रित हो गया // 137 / / श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं . श्रीहीरः सुषुवे जितेन्द्रिय-चयं मामल्लदेवी च यम् / . तर्केष्वप्यसमश्रमस्य दशमस्तस्य व्यरंसीन्महा... काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः // 138 / अन्वयः-कविराजराजिमुकुटालङ्कारहीरः श्रीहीरः मामल्लदेवी च जितेन्द्रियचयं यं श्रीहर्ष सुतं सुषुवे, तर्केषु अपि असमश्रमस्य तस्य चारुणि नैषधीय चरिते महाकाव्ये निसर्गोज्ज्वल: दशमः सर्गः व्यरंसीत् / व्याख्या-कविराजराजिमुकुटालङ्कारहीर:= कवीन्द्रचयमुकुटालङ्कृतिम श्रीहीरः- तन्नामा पिता मामल्लदेवी= तन्नाम्नी माता च, जितेन्द्रियचयम

Page Navigation
1 ... 1093 1094 1095 1096 1097 1098