Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ 1 . मेषधीयचरितं महाकाव्यम् बानन्दस्य, वेला = समयः, विषय अलम् = विषादं मा कृथा। एषाम्-समागतानाम, जगतीपतीनाम् = राज्ञाम्, गोत्रं = वुलम् अन्वयम्, चरित्रम् = समाचारम्, मया निगद्यम् = निगदनीयम्, निगदिष्ये, अखिलमानवदुर्जेयोऽयं विषयः मया सम्पादयितव्य इत्यर्थः / टिप्पणी-अगद्यत् = गदेः कर्मणि लङ् / मोदितुम् बेला-मुदेः, "कालसमयवेलासु तुमुन्" इति तुमुन् प्रत्ययः / विषय अलम् "अलं खल्वोः प्रतिषेधयोः प्राचां क्त्वा" इति क्त्वा प्रत्ययः तस्य ल्यबादेशः / जगत्याः पतयः जगतीपतयः तेषां जगतीपतीनाम् (10 तत्पुरुषः ) निगाद्यम् = निपूर्वात् गदे "ऋहलोण्यंत्" इति ण्यत् प्रत्ययः / . भावः-अहमेषां. नृपतीनां सर्वमपेक्षितं गोत्रचरितादि / _वक्ष्ये नव विषाद्यं भवता मोदस्वेति सा भूपति प्राह / / अनुवाद:-उस सरस्वती ने भीम राजा से कहा-यह आपकी प्रसन्नता का समय है विषाद न करो, मैं इन सभी राजाओं के नाम गोत्र चरित्र आदि का परिचय आपकी पुत्री को दिलाऊँगी। 89 // अविन्दतासी मकरन्दलीलां मन्दाकिनी यच्चरणारविन्दे / अत्रावतीर्णा गुणवर्णनाय राज्ञां तदाज्ञावशगाऽस्मि काऽपि // 10 // अन्वयः-असो मन्दाकिनी यस्य चरणारविन्दे मकरन्दलीलाम् अविन्दत तदाज्ञावशगा कापि अहं राज्ञां गुणवर्णनाय अत्र अवतीर्णा अस्मि / म्याल्या असौ प्रसिद्धा, मन्दाकिनी = स्वर्णदी, यस्य = भगवतः चरणारविन्दे = चरणकमले, मकरन्दम् मधु, तस्य लीलां= विलासम्, अविन्दत = प्रासवती तदाज्ञावशगा= तदादेशाधीना, कापि =अनिर्वाच्या, अहम् = एषां राज्ञाम् भूपतीनाम् गुणवर्णनाय = गुणसङ्कीर्तनाय, अत्र स्वयंवरे अवतीर्णा अस्मि = आगताम्मि। टिप्पणी-चरणारविन्दे-चरणी एव अरविन्दे तत् (क० धा० ) / मकरन्दलीलाम् = मकरन्दस्य (पद्ममधुनः) लीला (विलासः) ताम् (10 तत्पु०)। गुणवर्णनाय % गुणानां वर्णनं, तस्मै (10 तत्पु०)। तदाज्ञावशगा -वशंगच्छतीति वशगा, तस्य आशा तदाज्ञा, तदाज्ञया वशगा। अनुवाद:-यह प्रसिद्ध मन्दाकिनी जिसके चरण रूप कमलों के मकरन्द की

Page Navigation
1 ... 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098