Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ बसमः सर्गः अस्मिन् समाजे मनुजेश्वराणां तां खञ्जनाक्षीमवलोक्य केन / . पुनः पुनर्लोलितमोलिना न भ्रुवोरुदक्षेपितरां द्वयी वा ? // 111 // अन्वयः-अस्मिन् मनुजेश्वराणां समाजे खञ्जनाक्षीम् अवलोक्य लोलितमोलिना केन वा पुनः पुनः दृशोः द्वयी न उदक्षेपितराम् / . न्याया--अस्मिन् - एतस्मिन्, मनुजेश्वराणाम् = नरपतीनाम्, समाजे - सदसि, खजनाक्षीम्-खजरीटनयनाम्, अवलोक्य-दृष्ट्वा, लोलितमोलिना= कम्पितशिरस्केन सता केन वां जनेन = लोकेन पुनः पुनः- बारं वारं भुवोर्दयी -भ्रूयुगलम्, न उदक्षेपितराम् = अत्यन्तं क्षिप्ता। टिप्पणी-खजनाक्षीम् = खञ्जनस्येव अक्षिणी यस्या सा ताम् (ब. व्रीहिः)। मनुजेश्वराणाम् = मनुजानामीश्वरास्तेषाम् (तत्पुरुषः)। लोलितमौलिना=चालितशिरस्केन, लोलितः मौलिन सः तेन (बहुव्रीहिः ) उदक्षे. पितराम् उत्पूर्वात् लिपे कर्मणि लुङ् ततः 'तिङश्चेति तरप् प्रत्ययः किमेति. डित्यादिना आम् प्रत्ययः / भावः-सदसि तत्र न कोऽप्यभून्नृपः समवलोक्य सुखजनलोचनाम् / . क्षितिभुजां युगलं न निजध्रुवो मुहरपेतधुतिय उदक्षिपत् // अनुबादः-उस स्वयंवर सभा में ऐसा कोई राजा न था जो उस खजनाक्षी को देखकर धैर्यहीन होकर जिसने अपने भ्रूयुगल को उसके ऊपर न प्रक्षेप किया हो // 111 // स्वयंवरस्याजिरमाजिहानां विभाव्य भैमीमथ भूमिनाथैः। इदं मुदा विह्वलचित्तभावादवादि खण्डाक्षरजिह्मजिह्वम् // 112 // अन्वयः-अथ स्वयंवरस्य अजिरम् आजिहानाम् भैमीम् विभाव्य भूमिनार्थः मुदा विह्वलचित्तभावात् इदं खण्डाक्षरजिह्मजिह्वम् अवादि। . व्याख्या-अथ = अनन्तरम् स्वयंवरस्य = वरवरणस्थानस्य, अजिरम् = अङ्गणम् आजिहानाम् = आगच्छतीम् भैमीम् = दमयन्तीम् विभाव्य = दृष्ट्वा भूमिनायः भूपतिभिः मुदा = आनन्देन विह्वलचित्तभावात् - व्यग्रचित्तत्वात इदम् = वक्ष्यमाणम्, खण्डाक्षरजिह्मजिह्वम् = स्खलिताक्षरम्, अवादि उक्तम् / टिप्पणी-आजिहानाम् (हाङः कर्तरि शानच् ) विह्वलानि चित्तानि येषां तेषां भावात् विह्वलचित्तभावात् (बहु० बी० षष्ठी तत्पु०) खण्डाक्षर. जिह्वम् = खण्डाक्षरञ्च तद् जिह्मम् (कर्मधारयः ) /

Page Navigation
1 ... 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098