Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 1080
________________ वशमः सर्गः लक्ष्ये धृतं कुण्डलिके सुदत्या ताटङ्कयुग्मं स्मरधन्विने किम् ? / सम्यापसव्यं विशिखा विसृष्टास्तेनैतयोर्यान्ति किमन्तरेण ! // 117 // अन्वयः-सुदत्याः ताटङ्कयोः युग्मम् स्मरधन्विने लक्ष्ये कुण्डलिके धृते किम् तेन सन्यापसव्यं विसृष्टाः विशिखाः एतयोरन्तरेण यान्ति / .. .. व्याख्या-सुदत्या - भैम्या ताटङ्कयोः कर्णभूषणयोः, युग्मम् = युगलम् स्मरधन्विने = कामधानुष्काय लक्ष्ये =शरव्यभूते, कुण्डलिके - कुण्डल्यो, घृते = निवेशिते किम् ? ताटकमेव शरव्यचक्रत्वेन धृतवती किम्, तेन - धन्विना सव्यापसव्यम्, वाम-दक्षिणम् विसृष्टा विमुक्ताः, विशिखा: बाणाः, तयोः ताटङ्कयोः अन्तरेण = मध्येन, यान्ति = निर्गच्छन्ति / टिप्पणी-सुदत्याः=शोभना दन्ता यस्याः सा सुदती तया सुदत्या (ब. व्रीहिः)। सुश्याथा इत्यादिना दन्तस्य दद्भावः / स्मरधन्विने स्मर एव धन्वी तस्मै तथोक्ताय ( मयूरव्य० स०) तादयें चतुर्थी / कुण्डल्यावेव कुण्डलिके स्वार्थे कप्रत्ययः। भाव:-ताटक युग्मं विघृतम् स्मराय शरव्यहेतोः किमु भीम पुत्र्या। सव्यापसव्येन तयो विसृष्टा कामेन बाणाः सततं प्रयान्ति // मनुवादा-दमयन्ती ने अपने दोनों कानों में काम धन्वी के लिये निशाने पर बाण मारने के लिये धारण किया है क्या ? क्योंकि दायें बोये से पलाये गये कामदेव के बाण उसी के रास्ते से निकल जाते हैं // 117 // तैनात्यकीर्ति कुसुमाशुगस्य सैषा बतेन्दीवरकर्णपूरी। / यतः श्रवःकुण्डलिकाऽपराद्ध-शरं खलः ख्यापयिता तमाभ्याम् / / 118 // अन्वयः-सा एषा इन्दीवरकर्णपूरी कुसुमायुधस्य अपकीतिम् तनोति वत यतः खलः आभ्याम् तम् श्रवः कुण्डलिकापरायशरम् ख्यायपिता। - व्याया-सा प्रसिद्धा एषा=दमयन्ती इन्दीवरकर्णपूरी-नीलकमले कर्णभूषणीभूते एव कुसुमायुधस्य = प्रसूनबाणस्य अपकीर्तिम् = अपयशा, तनोतिविस्तारयति बत इति खेदे, यतः = यस्माद्धेतोः, खल:- दुर्जनः, आभ्याम् - कर्णोत्पलाभ्याम, तम् = कामम, श्रवकुण्डलिकापराशरम् - ताटङ्करूपलक्ष्य स्खलितनीलपपरूपवाणम् ख्यापयिता- खापयिष्यति / इन्दीवरयोरपि कामबाणत्वात् कुण्डलिका बहिर्भागलग्नत्वातावाग्ध एतद् दृष्टान्तेन अन्यत्राप्य परावपृषत्कदोषोताटन सोकर्यादिति भावः /

Loading...

Page Navigation
1 ... 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098