________________ नैषधीयचरितं महाकाव्यम् टिप्पणी-इन्दीवरकर्णपूरी = इन्दीवरे एव कर्णपूरी ( मयूरव्यंसकादिः) / कुसुमायुधस्य = कुसुमान्येवायुधानि यस्य तस्य ( बहुव्रीहिः ) / आयुतिमितिवत् कार्यकारणयोस्तादात्म्यम् / श्रवः कुण्डलिकापराद्धशरम् = श्रवसोः कुण्डलिके ताभ्यामपराद्धाः शराः यस्य सः तम् / ( तत्पु० गर्भो बहुव्रीहिः ) / भावः-. कर्णपूरीकृतेन्द्रीवरेयं ततः दुर्यशः कामदेवस्य धत्ते वत। / तच्छवः कुण्डला म्यामलग्नाशुगः धन्विदोषेण युक्तस्ततः ख्यास्यते // अनुवादः-दमयन्ती अपने कानों में इन्दीवर के कर्णपूरों को कामदेव की अपकीर्ति के समान धारण करती है यह खेद है क्योंकि इस नीलकमल रूप कर्णपूर द्वारा खल लोग कामदेव धन्वी पर दोषारोपण करेंगे कि उसका बाण कुण्ड रूप लक्ष्य से च्युत हो गया है इसलिये यह अच्छा धनुर्धर नहीं है। यहां नीलकमल रूप कारण से जनित होने के कारण कीर्ति भी काली हुई कारण का गुण कार्य के गुण को पैदा करता है // 11 // रजःपदं षट्पदकीटजुष्टं हित्वाऽऽत्मनः पुष्पमयं पुराणम् / अद्यात्मभूराद्रियतां स भैम्या भ्रयुग्ममन्तधृतमुष्टिचापम् // 119 // अन्वयः-अद्य आत्मभूः सः रजःपदम् षट्पद कीटजष्टम् आत्मनः पुराणं पुष्पमयं धनुः हित्वा अन्तर्घतमुष्टि भैम्याः भ्रूयुगं चापम् आद्रियताम् / . व्याख्या-अद्य = अस्मिन् अनि आत्मभूः = मनोभूः सः= प्रसिद्धः रजः पदम् = परागयुक्तम् (धूलिकलुषम् ) षट्पदकीटजुष्टम् = भ्रमररूपघुणविद्धम् तल्लीढत्वाज्जर्जरम्, आत्मनः= स्वस्य पुराणम् = पुरातनम् पुष्पमयम् = कुसुमरूप-धनुः = चापम्, हित्वा = विहाय अन्तर्धतमुष्टि = मध्ये मुष्टिधृतवल्लक्ष्यम् भैम्यादमयन्त्या भ्रूयुगरूपमेव चापम्, धत्ताम् = दधातु / सति विशिष्टगुणे नवे पुराणं निकृष्टं त्यजतु / टिप्पणी-रजःपदम् = रजसां पदम् (10 तत्पु० ) / षट्पदकीटजुष्टम् = षट्पदैरेव कीटः जुष्टम् ( मयूरव्यं० पुरःसरस्तृतीया तत्पु० ) अन्तघृतमुष्टि = अन्तः धृता मुष्टियंत्रेति (ब० वी० ) / भावासरजसमपि भृङ्गकीटजुष्टं कुसुमधनुः समपास्य तत्पुराणम् / क्षितिपतितनया भ्रयुग्मचापं कलयतु धृत मध्य मुष्टि सस्मरोऽद्य //