________________ मेवधीयचरितं महाकाव्यम् भावानमामो विधातुः करेभ्योऽथवानो न तस्यदृशी संविधा सम्भवित्री। स कामो विधातुं विमामाकृति या शरीरं विना वर्तते चेतसैव // से भी वह दमयन्ती नहीं छुई गयी है हाथों से तो बात ही क्या है शरीर न होने के कारण कामदेव का यह शिल्प हो सकता है / / 126 // इमां न मृद्वीमसृजत् कराभ्यां वेधाः कुशाध्यासनकर्कशाभ्याम् / अन्वयः-वेधाः मृद्वीम् इमां कुशाध्यासनकर्कशाभ्याम् कराभ्याम् न असृजत् * तथा शृङ्गारधारां शान्ति-विश्रान्ति-धन्वाध्वमहीरहेण मनसा अपि न अरचयत् / ___स्यास्या-वेधाः ब्रह्मा मृद्वीम् = कोमलाङ्गीम् इमा, कुशाध्यासनकर्कशाभ्यां =दर्भासनकठिनाभ्याम् कराभ्याम् हस्ताभ्याम् न असृजत् = निर्मितवान् शृङ्गारधाराम् = शृङ्गाररसवाहिनीम्, शान्ति-विश्रान्ति-धन्वाध्व-महीरहेण= विषयविरति-विराम-मरुस्थल-वृक्षरूपेण मनसा= चेतसा अपि च न अरचयत् % निर्मितवान् / टिप्पणी-मृद्वीम् = वोतोगुणवचनात् इति वैकल्पिकः डीप् / कुशाध्या. सनकर्कशाभ्याम् = कुशे अध्यासनं तेन कर्कशाभ्याम् (स• तृ० तत्पुरुषो) शृङ्गारधाराम् = शृङ्गारस्य धाराम् (10 तत्पु० ) "समानो मरुधन्वानो" इत्यमरः मनसा नासृजत् विषय रसविरक्तेन शृङ्गाररसवाहिन्या अस्या निर्माणा सम्भवात् / भाव:-मृद्वी नेयं कर्कशाभ्यां कराभ्यां कर्तुं शक्या वेधसा वै कथञ्चित् / शृङ्गारेका निर्झरी वा विरक्त-चित्तेनापीयं विधेया तथैव // अनुबाबा-विधाता कोमलाङ्गी इस दमयन्ती को कुशासन पर बैठने से कर्कश अपने हाथों से नहीं बना सकते और शृङ्गार रस की तरङ्गिणी रूपा इसको विषय से विरक्तों के विश्रामदायक कठिन मरुस्थल मार्ग के वृक्ष स्वरूप अपने मन से भी इसको नहीं बना सकते विषय से अनभिज्ञ द्वारा शृङ्गार रसमयी इस दमयन्ती का निर्माण कैसे हो सकता है // 127 // . उल्लास्य धातुस्तुलिता करेण श्रोणी किमेषा स्तनयोर्गुरुर्वा / तेनान्तरालस्त्रिभिरङ्गुलीनामुदीतमध्यत्रिवलीविलासा // 128 //