________________ बशमः सर्गः व्याल्या-इयम् = भैमी स्मितेन = मन्दहासेन, गौरी गौरीनामा काचिदप्सराः पक्षे-सिता च / ('मे मतिं कामति' एवमुत्तरत्राप्यन्वेयम् ) सुन्दरकण्ठभासा मधुरकण्ठध्वनिसम्पदा, वीणावती ( मे मति कामति ) वीणावतीनाम्नी काचिद्देवाङ्गना पक्षे वीणायुक्ता च, कायभासा = देहकान्त्या, हेम = अप्सरोविशेषः सुवर्णञ्च अङ्गशेषः = अवशिष्टाङ्गः, तन्वी = मेनकापि मे मति कामति, एतस्या अङ्गानि दृष्ट्वा स्मर्यत इत्यर्थः।। भावः-गोवर्णा स्मितेनेक्षणेनैणिका स्वस्वरेणैवमाभाति बाणावती। - कायकान्त्या सुवर्णाङ्गशेषरियं मेनका तानवाप्ता शुभान्याऽङ्गना / अनुवा-यह दमयन्ती मन्दहास्य गौरी नाम की अप्सरा वा, गौरवर्णा है, आंखों से हरिणी नाम की देवाङ्गना वा, मृगी है, सुन्दर कण्ठस्वर से वीणावती अप्सरा वा, वीणा के समान स्वर वाली या वीणा वाली है, काय की कान्ति से हेम नाम की अमरनारी वा स्वर्णवर्णा है, एवं शेष अङ्गों से तन्वङ्गी मेनका नाम की अप्सरा भी मेरी बुद्धि पर आरूढ़ हो जाती है स्मृति पथ पर आ जाती है / कोई भी स्त्री इसके उपमा योग्य मेरे मन में नहीं आती है। यहां पर इन्द्र ने देव और मानव दोनों अर्थों को लेकर कहा है / / 134 // इति स्तुवानः सविधे नलेन विलोकितः शङ्कितमानसेन / - व्याकृत्य मोचितमर्थमुक्तराखण्डलस्तस्य नुनोद शङ्कम् / / 135 / / अन्वयः--इति स्तुवान: आखण्डल: सविधेः शङ्कितमानसेन नलेन विलोकितः उक्तेः मोचितमथं व्याकृत्य तस्य शङ्कां नुनोद / व्याख्या-इति = पूर्वोक्तप्रकारेण गौरी प्रभृति देवाङ्गनात्वे भैमी वर्णयन् आखण्डल:-इन्द्रः, सविधे-समीपे, स्थितेन= उपविष्टेन, नलेन -नैषधेन, शङ्कितमानमानसेन नूनमयं मम रूपधारी मघवेति सजातशङ्केन, विलोकितः = दृष्टः, उक्तः= स्वोक्तस्य, मयोचितम् = मनुष्यपक्षीयम्, अर्थम् = अभिधेयम् व्याकृत्य=विवृत्य, तस्य = नलस्य, शङ्काम् = सन्देहम्, नुनोद = दुरितवान् / टिप्पणी-स्तुवानः = स्तुधातो कर्तरि लट् तस्य शानजादेशः / 'आखण्डल: सहस्राक्षः' इत्यमरः / शङ्कितमासेन = शङ्का सञ्जाता अस्येति शङ्कितम् 'तदस्य सजातं तारकादिभ्य इतच्' इतीतच् प्रत्ययः तादृशम् मानसं यस्य सः तेन (बहुव्रीहिः ) / मोचितम् = मत्यंस्य उचितम् (10 तत्पु०)। व्याकृत्य = वि+आ+ +क्त्वा-ल्यप् /