Book Title: Naishadhiya Charitam
Author(s): Sheshraj Sharma
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ नेषषीयचरितं महाकाव्यम् षनिर्गतास्ततदिगन्तरालरदकिरण निकुरम्बः, कौमुदीनाम् = चन्द्रप्रभाणाम् हृदि= हृदये, मदम् = स्वच्छताहङ्कारम् नुदन्ती दूरयन्तीम् कौमुद्योहि कमलविकाशासमर्थाः दन्तकिरणस्तु नृपमुखपमानि विकसितानि इति भावः। . टिप्पणी-आनन्दितोर्वीन्द्रमुखैः = आनन्दितानि उर्वीन्द्राणां मुखानि यस्ते तैः (ब० व्रीहिः ) / स्मितमिच्छत इति स्मितेच्छू तोच तो रदनच्छदौ तयोः कम्पने दिगम्बरीभूतानि, रदानामंशवः, तेषा वृन्दानि तः, स्मितेच्छु-रदनच्छदकम्पकिञ्चिद्दिगम्बरीभूतरदांशुवृन्दैः / ( कर्मधारय, ष० तत्पु०, 50 तत्पु० तृ० तत्पु० कर्मधारयः / ) भाव:स्मित-विकसितकान्तदन्तकन्त्याऽधरयन्ती शशिकौमुदीप्रसादम् / बपि च नृपसदोमुखारविन्दान्यधिगतचारुविकासमादधानाम् / / अनुवाक-धराधीशों के मुखकमल को प्रसन्न करने वाली स्मिताभिलाष से विकसित ओष्ठपुट से निकले दन्त-किरणों से चन्द्र के चाँदनी के मद को मदन करती हुई // 103 // प्रत्यङ्गभूषाच्छमणिच्छालेन यल्लग्नतन्निश्चललोकनेत्राम् / हाराग्रजाग्रद्गरुडाश्मरश्मिपीनाभनाभीकुहरान्धकाराम् // 104 // अन्वयः-प्रत्यङ्गभूषाच्छमणिञ्छसेन यल्लग्नतनिश्चललोकनेत्राम् हारानजाग्रद्गरुडाश्मरश्मिपीनाभनाभीकुहरान्धकाराम् / व्याख्या-प्रत्यङ्गभूषाच्छमणिच्छलेन = प्रतिप्रतीकनिर्मलरत्नच्छलेन, यल्लग्नतानिश्चललोकनेत्रम् = तत्तदङ्गसक्तनिस्पन्दजननयनाम्, हाराग्रजाग्रद् गरुडाश्मरश्मिपीनाभनाभीकुहरान्धकाराम् =हारप्रान्तप्रोतनीलमणिकिरणघननाभिश्वभ्र. ध्वान्ताम् / टिप्पणी-अङ्गे अने इति प्रत्यङ्गम् ( वीप्सार्थेऽव्ययीभावः ) प्रत्यङ्गं या भूषा तासु ये अच्छाः मणयः तेषां च्छलेन प्रत्यङ्गभूषाच्छमणिच्छलेन ( स० तत्पु० ष० तत्पु०) यस्मिन् लग्नानि तस्मिन्निश्चलानि लोकानां नेत्राणि यस्यां सा ताम् / (सप्तमीतत्पु० गर्भ कर्मधारय पुरःसरः बहुव्रीहि ) / हारस्थ अग्रे जाग्रतः गरुडाश्मनः किरणैः पीनाभः नाभिकुहरान्धकारो यस्याः सा ताम् (10 तत्पु० कर्मधारय प० तत्पु० पुरःसरः बहुव्रीहिः ) हाराग्रजाग्रद्गरुडाश्मरश्मिपीनाभनाभीकुहरान्धकाराम् /

Page Navigation
1 ... 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098